Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तुतिः (मत्स्यपुराणे देव कृतम्)

देवा ऊचुः ।

त्वमोङ्कारोऽस्यङ्कुराय प्रसूतो

विश्वस्यात्मानन्तभेदस्य पूर्वम् ।

सम्भूतस्यानन्तरं सत्त्वमूर्ते

संहारेच्छोस्ते नमो रुद्रमूर्ते ॥ १ ॥

व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना

तस्मादण्डात् स्वाभिधानादचिन्त्यः ।

द्यावापृथिव्योरूर्ध्वखण्डावराभ्यां

ह्यण्डादस्मात्त्वं विभागं करोषि ॥ २ ॥

व्यक्तं मेरौ यज्जनायुस्तवाभू-

-देवं विद्मस्त्वत्प्रणीतश्चकास्ति ।

व्यक्तं देवा जन्मनः शाश्वतस्य

द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ ॥ ३ ॥

व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते

पादौ भूमिर्नाभिरन्ध्रे समुद्राः ।

मायाकारः कारणं त्वं प्रसिद्धो

वेदैः शान्तो ज्योतिषा त्वं हि युक्तः ॥ ४ ॥

वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा

हृत्पद्मान्तः सन्निविष्टं पुराणम् ।

त्वामात्मानं लब्धयोगा गृणन्ति

साङ्ख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥ ५ ॥

तासां हेतुर्याष्टमी चापि गीता

तस्यां तस्यां गीयसे वै त्वमन्तम् ।

दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार

देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥ ६ ॥

सम्भूतास्ते त्वत्त एवादिसर्गे

भूयस्तां तां वासनां तेऽभ्युपेयुः ।

त्वत्सङ्कल्पेनान्तमायाविमूढः

कालोऽमेयो ध्वस्तसङ्ख्याविकल्पः ॥ ७ ॥

भावाभावव्यक्तिसंहारहेतु-

-स्त्वं सोऽनन्तस्तस्य कर्तासि चात्मन् ।

येऽन्ये सूक्ष्माः सन्ति तेभ्योऽभिगीतः

स्थूला भावाश्चावृतारश्च तेषाम् ॥ ८ ॥

तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो

भूतं भव्यं चैवमुद्भूतिभाजाम् ।

भावे भावे भावितं त्वा युनक्ति

युक्तं युक्तं व्यक्तिभावान्निरस्य ।

इत्थं देवो भक्तिभाजां शरण्य-

-स्त्राता गोप्ता नो भवानन्तमूर्तिः ॥ ९ ॥

इति श्रीमत्स्ये महापुराणे चतुःपञ्चाशदधिकशततमोऽध्याये देव कृत श्री ब्रह्म स्तुतिः ॥

sri brahma stotram 2 deva krutam