Skip to main content
पडताळणी प्रलंबित

श्री एकदन्त स्तोत्रम्

गृत्समद उवाच ।

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।

भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ १ ॥

प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् ।

तुष्टुवुर्हर्षसम्युक्ता एकदन्तं गजाननम् ॥ २ ॥

देवर्षय ऊचुः ।

सदात्मरूपं सकलादिभूत-

-ममायिनं सोऽहमचिन्त्यबोधम् ।

अथादिमध्यान्तविहीनमेकं

तमेकदन्तं शरणं व्रजामः ॥ ३ ॥

अनन्तचिद्रूपमयं गणेश-

-मभेदभेदादिविहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं

तमेकदन्तं शरणं व्रजामः ॥ ४ ॥

समाधिसंस्थं हृदि योगिनां तु

प्रकाशरूपेण विभान्तमेवम् ।

सदा निरालम्बसमाधिगम्यं

तमेकदन्तं शरणं व्रजामः ॥ ५ ॥

स्वबिम्बभावेन विलासयुक्तं

प्रकृत्य मायां विविधस्वरूपम् ।

सुवीर्यकं तत्र ददाति यो वै

तमेकदन्तं शरणं व्रजामः ॥ ६ ॥

यदीय वीर्येण समर्थभूतं

स्वमायया संरचितं च विश्वम् ।

तुरीयकं ह्यात्मकवित्तिसञ्ज्ञं

तमेकदन्तं शरणं व्रजामः ॥ ७ ॥

त्वदीयसत्ताधरमेकदन्तं

गुणेश्वरं यं गुणबोधितारम् ।

भजन्त आद्यं तमजं त्रिसंस्था-

-स्तमेकदन्तं शरणं व्रजामः ॥ ८ ॥

ततस्त्वया प्रेरितनादकेन

सुषुप्तिसञ्ज्ञं रचितं जगद्वै ।

समानरूपं च तथैकभूतं

तमेकदन्तं शरणं व्रजामः ॥ ९ ॥

तदेव विश्वं कृपया प्रभूतं

द्विभावमादौ तमसा विभातम् ।

अनेकरूपं च तथैकभूतं

तमेकदन्तं शरणं व्रजामः ॥ १० ॥

ततस्त्वया प्रेरितकेन सृष्टं

सुसूक्ष्मभावं जगदेकसंस्थम् ।

सुसात्त्विकं स्वप्नमनन्तमाद्यं

तमेकदन्तं शरणं व्रजामः ॥ ११ ॥

तत् स्वप्नमेवं तपसा गणेश

सुसिद्धिरूपं द्विविधं बभूव ।

सदैकरूपं कृपया च ते य-

-त्तमेकदन्तं शरणं व्रजामः ॥ १२ ॥

त्वदाज्ञया तेन सदा हृदिस्थ

तथा सुसृष्टं जगदंशरूपम् ।

विभिन्नजाग्रन्मयमप्रमेयं

तमेकदन्तं शरणं व्रजामः ॥ १३ ॥

तदेव जाग्रद्रजसा विभातं

विलोकितं त्वत्कृपया स्मृतेश्च ।

बभूव भिन्नं च सदैकरूपं

तमेकदन्तं शरणं व्रजामः ॥ १४ ॥

तदेव सृष्ट्वा प्रकृतिस्वभावा-

-त्तदन्तरे त्वं च विभासि नित्यम् ।

धियः प्रदाता गणनाथ एक-

-स्तमेकदन्तं शरणं व्रजामः ॥ १५ ॥

सर्वे ग्रहा भानि यदाज्ञया च

प्रकाशरूपाणि विभान्ति खे वै ।

भ्रमन्ति नित्यं स्वविहारकार्या-

-त्तमेकदन्तं शरणं व्रजामः ॥ १६ ॥

त्वदाज्ञया सृष्टिकरो विधाता

त्वदाज्ञया पालक एव विष्णुः ।

त्वदाज्ञया संहरको हरो वै

तमेकदन्तं शरणं व्रजामः ॥ १७ ॥

यदाज्ञया भूस्तु जले प्रसंस्था

यदाज्ञयाऽऽपः प्रवहन्ति नद्यः ।

स्वतीरसंस्थश्च कृतः समुद्र-

-स्तमेकदन्तं शरणं व्रजामः ॥ १८ ॥

यदाज्ञया देवगणा दिविस्था

यच्छन्ति वै कर्मफलानि नित्यम् ।

यदाज्ञया शैलगणाः स्थिरा वै

तमेकदन्तं शरणं व्रजामः ॥ १९ ॥

यदाज्ञया शेष इलाधरो वै

यदाज्ञया मोहद एव कामः ।

यदाज्ञया कालधरोऽर्यमा च

तमेकदन्तं शरणं व्रजामः ॥ २० ॥

यदाज्ञया वाति विभाति वायु-

-र्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।

यदाज्ञयेदं सचराचरं च

तमेकदन्तं शरणं व्रजामः ॥ २१ ॥

तदन्तरिक्षं स्थितमेकदन्तं

त्वदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं हृदि बोधकं त्वां

तमेकदन्तं शरणं व्रजामः ॥ २२ ॥

सुयोगिनो योगबलेन साध्यं

प्रकुर्वते कः स्तवने समर्थः ।

अतः प्रणामेन सुसिद्धिदोऽस्तु

तमेकदन्तं शरणं व्रजामः ॥ २३ ॥

गृत्समद उवाच ।

एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ।

तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसम्युताः ॥ २४ ॥

स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ।

एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५ ॥

एकदन्त उवाच ।

स्तोत्रेणाहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु ।

वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥

भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् ।

भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७ ॥

यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः ।

पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २८ ॥

गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ।

भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९ ॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।

पठतां शृण्वतां नृणां भवेत्तद्बन्धहीनता ॥ ३० ॥

एकविंशतिवारं यः श्लोकानेवैकविंशतिम् ।

पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ ३१ ॥

न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु वै भवेत् ।

असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२ ॥

नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः ।

तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३३ ॥

एवं तस्य वचः श्रुत्वा प्रहृष्टा अमरर्षयः ।

ऊचुः सर्वे करपुटैर्भक्त्या युक्ता गजाननम् ॥ ३४ ॥

इति श्रीमुद्गलपुराणे एकदन्तचरिते पञ्चपञ्चाशत्तमोऽध्याये श्री एकदन्त स्तोत्रम् ।

sri ekadanta stotram