Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा स्तोत्रम् – २

॥ ऐं ख्फ्रेम् ॥

नमोऽस्तु ते महामाये देहातीते निरञ्जने ।

प्रत्यङ्गिरा जगद्धात्रि राजलक्ष्मि नमोऽस्तु ते ॥ १ ॥

वर्णदेहा महागौरी साधकेच्छाप्रवर्तिता ।

पददेहा महास्फाल महासिद्धिसमुत्थिता ॥ २ ॥

तत्त्वदेहस्थिता देवि साधकानुग्रहा स्मृता ।

महाकुण्डलिनी भित्त्वा सहस्रदलभेदिनी ॥ ३ ॥

इडापिङ्गलमध्यस्था वायुभूता खगामिनी ।

मृणालतन्तुरूपिण्या सुषुम्णामध्यचारिणी ॥ ४ ॥

नादान्तेनादसंस्थाना नादातीता निरञ्जना ।

सूक्ष्मेस्थूलेति सम्पूज्ये अचिन्त्याचिन्त्यविग्रहे ॥ ५ ॥

परापरपरे शान्ते ब्रह्मलीने परे शिवे ।

अचिन्त्यरूपचरिते अचिन्त्यार्थफलप्रदे ॥ ६ ॥

एकाकिनी विश्वमाता करवीरनिवासिनी ।

महास्फालप्रदा नित्या महामेलापकारिणी ॥ ७ ॥

बिन्दुमध्ये स्थिता देवी कुटिले चार्धचन्द्रिके ।

द्वादशान्तालया देवी षोडशाधारवासिनी ॥ ८ ॥

कार्यकारणसम्भिन्ना चैतन्यानाडिमध्यगा ।

शक्तिमूले महाचक्रे नवधा संव्यवस्थिता ॥ ९ ॥

अशरीरा परादेवी शरीरे प्राणरूपिणी ।

सुधाद्रवसमाकारा ओङ्कारपरविग्रहा ॥ १० ॥

विद्युल्लतनिभा देवी भावाभावविवर्जिता ।

स्वान्तपद्मस्थिता नित्या परेशी शान्तविग्रहा ॥ ११ ॥

सत्त्वरूपा रजोरूपा तमोरूपा त्रयात्मिका ।

त्वमेव देवी सर्वेषां भूतानां प्राणदायिनी ॥ १२ ॥

त्वयैव सृज्यते विश्वं लीलया बहुधा स्थिता ।

मालिनी परमा देवी श्मशानपरबन्धनी ॥ १३ ॥

हृत्तालुभेदिनी चक्रे विचक्रे चक्रसुन्दरी ।

बिन्दुद्वारनिरोधेन दिव्यव्याप्ता नमोऽस्तु ते ॥ १४ ॥

सूर्यकोटिप्रतीकाशे चन्द्रकोट्यतिनिर्मले ।

कन्दर्पकोटिलावण्यकोटिब्रह्माण्डविग्रहे ॥ १५ ॥

निराकारे निराभासे निर्लेपे निर्विनिग्रहे ।

सकलाख्ये महामाये वरदे सुरपूजिते ॥ १६ ॥

खकारफकारवह्निस्थैकारान्तर सुन्दरि ।

मकारान्तर वर्गेषु पञ्चपिण्डात्मके शिवे ॥ १७ ॥

सर्पवत्कुटिलाकार नादशक्तिपरे मते ।

बिन्दुचक्रस्थिता देवी जालन्धरस्वरूपिणी ॥ १८ ॥

भूर्यवैडूर्यपीठस्थे पूर्णपीठव्यवस्थिते ।

कामस्थिते कलातीते कामाख्ये च भगोद्भवे ॥ १९ ॥

ब्रह्मग्रन्थिकलाटोपमध्येस्रोतप्रवाहिनी ।

शिवे सर्वगते सूक्ष्मे नित्यानन्दमहोत्सवे ॥ २० ॥

मन्त्रनायिकि मन्त्रज्ञे विद्येकोशान्तवासिनी ।

पञ्चपीठिकमध्यस्थे मेरुनायकि शर्वरी ॥ २१ ॥

खेचरी भूचरी चैव शक्तित्रयप्रवाहिनी ।

कालान्ताग्निसमुद्भूता कालकालान्तकालिनी ॥ २२ ॥

कालिकाक्रमसम्बन्धि कालिद्वादशमण्डले ।

त्रैलोक्यदहनी देवी सा च मूर्तिस्त्रयोदशी ॥ २३ ॥

सृष्टि स्थिति च संहारे अनाख्याख्ये महाक्रमे ।

भासाख्या गुह्यकाली च निर्वाणेशी परेश्वरी ॥ २४ ॥

झङ्कारिणी भैरवी च स्वर्णकोटेश्वरी शिवा ।

राजराजेश्वरी चण्डा अघोरेशी निशेश्वरी ॥ २५ ॥

सुन्दरी त्रिपुरा पद्मा तारा पूर्णेश्वरी जया ।

क्रममण्डलमध्यस्था क्रमेशी कुब्जिकाम्बिका ॥ २६ ॥

ज्येष्ठबालविभेदेन कुब्जाख्या उग्रचण्डिका ।

ब्राह्माणी रौद्री कौमारी वैष्णवी दीर्घनासिका ॥ २७ ॥

वज्रिणी चर्चिकालक्ष्मी पूजयेद्दिव्यमातरः ।

असिताङ्गोरुरुश्चण्डः क्रोधीशोन्मत्त सञ्ज्ञकम् ॥ २८ ॥

कपाली भीषणाख्याश्च संहारश्चाष्टमस्तथा ।

भक्तानां साधकानां च लक्ष्मीं सिद्धिं प्रयच्छ मे ॥ २९ ॥

सिद्धिलक्ष्मीर्महादेवीं भैरवेनानुकीर्तिता ।

साधकद्वेष्टकानां च सर्वकर्मविभञ्जिनी ॥ ३० ॥

विपरीतकरी देवी प्रत्यङ्गिरा नमोऽस्तु ते ।

कालादि ग्रसिते सर्वं ग्रहभूतादि डाकिनी ॥ ३१ ॥

साधकं रक्षते देवी कालसङ्कर्षणीं नुमः ।

शिवं प्रयच्छते देवी रक्षते लीलया जगत् ॥ ३२ ॥

राज्यलाभप्रदां देवी रक्षणी भक्तवत्सलाम् ।

प्रत्यङ्गिरां नमस्यामि अचिन्तितार्थसिद्धये ॥ ३३ ॥

सर्वशत्रून् प्रमर्दन्ती दुरितक्लेशनाशिनीम् ।

प्रत्यङ्गिरां नमस्यामि अचिन्तितार्थसिद्धये ॥ ३४ ॥

आपदाम्भोधितरणिं परं निर्वाणदायिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३५ ॥

राज्यदां धनदां लक्ष्मीं मोक्षदां दुःखनाशिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३६ ॥

दुष्टशत्रुप्रशमनीं महाव्याधिविनाशिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३७ ॥

कलिदुःखप्रशमनीं महापातकनाशिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३८ ॥

अचिन्त्यसिद्धिदां देवी चिन्तितार्थफलप्रदाम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३९ ॥

राजोपसर्गशमनीं मृत्युपद्रवनाशिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ४० ॥

राजमातां राजलक्ष्मीं राज्येष्टफलदायिनीम् ।

प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ४१ ॥

फलश्रुतिः –

सिद्धिलक्ष्मीर्महाविद्या महासिद्धिप्रदायिका ।

पठेद्वा पाठयेद्वापि स्तोत्रं प्रत्यङ्गिराभिधम् ॥ ४२ ॥

पठनाच्छत्रुसैन्यानि स्तम्भयेज्जम्भयेत् क्षणात् ।

अचिन्तितानि सिद्ध्यन्ति पठनात् सिद्धिमाप्नुयात् ॥ ४३ ॥

महादोषप्रशमनं महाव्याधिविनाशनम् ।

सिंहव्याघ्रग्रहभये राजोपद्रवनाशनम् ॥ ४४ ॥

ग्रहपीडा जलाग्नीनां नाशनं देवि शान्तिदम् ।

पूजाकाले महास्तोत्रं ये पठिष्यन्ति साधकाः ॥ ४५ ॥

तेषां सिद्धिर्नदूरेऽस्ति देव्याः सन्तुष्टिदायकम् ।

ते नास्ति यन्नसिद्ध्येत कौलिके कुलशासने ॥ ४६ ॥

यं यं चिन्तयते कामं स स सिद्ध्यति लीलया ।

सत्यं सत्यं महादेवी कौलिके तत्समो न हि ॥ ४७ ॥

अर्धरात्रे समुत्थाय दीपः प्रज्वल्यते निशि ।

पठ्यते स्तोत्रमेतत्तु सर्वं सिद्ध्यति चिन्तितम् ॥ ४८ ॥

पुरश्चर्यां विनानेन स्तोत्रपाठेन सिद्ध्यति ।

मण्डले प्रतिमाग्रे वा मण्डलाग्रे पठेद्यदि ॥ ४९ ॥

इदं प्रोक्तं महास्तोत्रं अचिन्तितार्थसिद्धिदम् ।

अन्यदेवरतानां तु न देयं तु कदाचन ॥ ५० ॥

दातव्यं भक्तियुक्ताय कुलदीक्षारताय च ।

अन्यथा पतनं यान्ति इत्याज्ञा पारमेश्वरी ॥ ५१ ॥

इति त्रिदशडामरे कानवीरे श्रीसिद्धिनाथावतारितः श्रीसिद्धिलक्ष्मी महामाया स्तवं नाम श्री प्रत्यङ्गिरा स्तोत्रम् ॥

sri pratyangira stotram 2