Skip to main content
पडताळणी प्रलंबित

श्री गणेश हृदयम्

शिव उवाच ।

गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।

साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ १ ॥

अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्रीमत्स्वानन्देशो गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् ।

श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थं जपे विनियोगः । गां गीमिति न्यासः ।

ध्यानम् ।

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं

पाशं चैवाङ्कुशं वै रदनमभयदं पाणिभिः सन्दधानम् ॥

सिद्ध्या बुद्ध्या च श्लिष्टं गजवदनमहं चिन्तये ह्येकदन्तं

नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ २ ॥

ओं गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।

ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १ ॥

हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।

आशापूरं तु वरदं विकटं धरणीधरम् ॥ २ ॥

सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसञ्ज्ञितम् ।

माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ ३ ॥

एकविंशति नामानि गणेशस्य महात्मनः ।

अर्थेन सम्यूतान्येव हृदयं परिकीर्तितम् ॥ ४ ॥

गकाररूपं विविधं चराचरं

णकारगं ब्रह्म तथा परात्परम् ।

तयोः स्थितास्तस्य गणाः प्रकीर्तिता

गणेशमेकं प्रणमाम्यहं परम् ॥ ५ ॥

मायास्वरूपं तु सदैकवाचकं

दन्तः परो मायिकरूपधारकः ।

योगे तयोरेकरदं सुमानिनि

धीस्थं नतोऽहं जनभक्तिलालसम् ॥ ६ ॥

चित्तप्रकाशं विविधेषु संस्थं

लेपावलेपादिविवर्जितं च ।

भोगैर्विहीनं त्वथ भोगकारकं

चिन्तामणिं तं प्रणमामि नित्यम् ॥ ७ ॥

विनायकं नायकवर्जितं प्रिये

विशेषतो नायकमीश्वरात्मनाम् ।

निरङ्कुशं तं प्रणमामि सर्वदं

सदात्मकं भावयुतेन चेतसा ॥ ८ ॥

वेदाः पुराणानि महेश्वरादिकाः

शास्त्राणि योगीश्वरदेवमानवाः ।

नागासुरा ब्रह्मगणाश्च जन्तवो

ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ ९ ॥

मायार्थवाच्यो मयूरप्रभावो

नानाभ्रमार्थं प्रकरोति तेन ।

तस्मान्मयूरेशमथो वदन्ति

नमामि मायापतिमासमन्तात् ॥ १० ॥

यस्योदराद्विश्वमिदं प्रसूतं

ब्रह्माणि तद्वज्जठरे स्थितानि ।

आनन्त्यरूपं जठरं हि यस्य

लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ ११ ॥

जगद्गलाधो गणनायकस्य

गजात्मकं ब्रह्म शिरः परेशम् ।

तयोश्च योगे प्रवदन्ति सर्वे

गजाननं तं प्रणमामि नित्यम् ॥ १२ ॥

दीनार्थवाच्यस्त्वथ हेर्जगच्च

ब्रह्मार्थवाच्यो निगमेषु रम्बः ।

तत्पालकत्वाच्च तयोः प्रयोगे

हेरम्बमेकं प्रणमामि नित्यम् ॥ १३ ॥

विश्वात्मकं यस्य शरीरमेकं

तस्माच्च वक्त्रं परमात्मरूपम् ।

तुण्डं तदेवं हि तयोः प्रयोगे

तं वक्रतुण्डं प्रणमामि नित्यम् ॥ १४ ॥

मातापिताऽयं जगतां परेषां

तस्यापि माताजनकादिकं न ।

श्रेष्ठं वदन्ति निगमाः परेशं

तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ १५ ॥

नाना चतुःस्थं विविधात्मकेन

सम्योगरूपेण निजस्वरूपम् ।

पूर्यस्य सा पूर्णसमाधिरूपा

स्वानन्दनाथं प्रणमामि चातः ॥ १६ ॥

मनोरथान् पूरयतीह गङ्गे

चराचराणां जगतां परेषाम् ।

अतो गणेशं प्रवदन्ति चाशा-

-प्रपूरकं तं प्रणमामि नित्यम् ॥ १७ ॥

वरैः समस्थापितमेव सर्वं

विश्वं तथा ब्रह्मविहारिणा च ।

अतः परं विप्रमुखा वदन्ति

वरप्रदं तं वरदं नतोऽस्मि ॥ १८ ॥

मायामयं सर्वमिदं विभाति

मिथ्यास्वरूपं भ्रमदायकं च ।

तस्मात्परं ब्रह्म वदन्ति सत्य-

-मेनं परेशं विकटं नमामि ॥ १९ ॥

चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो

नानाविधा योगिभिरेव गङ्गे ।

तासां सदा धारक एष वन्दे

चाहं हि धरणीधरमादिभूतम् ॥ २० ॥

विश्वात्मिका ब्रह्ममयी हि बुद्धिः

तस्या विमोहप्रदिका च सिद्धिः ।

ताभ्यां सदा खेलति योगनाथः

तं सिद्धिबुद्धीशमथो नमामि ॥ २१ ॥

असत्यसत्साम्यतुरीयनैज-

-गनिवृत्तिब्रह्माणि विरच्य खेलकः ।

सदा स्वयं योगमयेन भाति

तमानतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ २२ ॥

अमङ्गलं विश्वमिदं सहात्मभिः

अयोगसम्योगयुतं प्रणश्वरम् ।

ततः परं मङ्गलरूपधारकं

नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ २३ ॥

सर्वत्रमान्यं सकलावभासकं

सुज्ञैः शुभादावशुभादिपूजितम् ।

पूज्यं न तस्मान्निगमादिसम्मतं

तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ २४ ॥

भुक्तिं च मुक्तिं च ददाति तुष्टो

यो विघ्नहा भक्तिप्रियो निजेभ्यः ।

भक्त्या विहीनाय ददाति विघ्नान्

तं विघ्नराजं प्रणमामि नित्यम् ॥ २५ ॥

नामार्थयुक्तं कथितं प्रिये ते

विघ्नेश्वरस्यैव परं रहस्यम् ।

सप्तत्रिनाम्नां हृदयं नरो यो

ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ २६ ॥

इति श्रीमुद्गलपुराणे गणेशहृदय स्तोत्रम् ॥

sri ganesha hrudayam