Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तुतिः (वायुपुराणे व्यास कृतम्)

प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् ।

महादेवं महात्मानं सर्वस्य जगतः पतिम् ॥ १ ॥

ब्रह्माणं लोककर्तारं सर्वज्ञमपराजितम् ।

प्रभुं भूतभविष्यस्य साम्प्रतस्य च सत्पतिम् ॥ २ ॥

ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।

ऐश्वर्यं चैव धर्मश्च सहसिद्धिचतुष्टयः ॥ ३ ॥

य इमान् पश्यते भावान् नित्यं सदसदात्मकान् ।

आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम् ॥ ४ ॥

लोककृल्लोकतत्त्वज्ञो योगमास्थाय तत्त्ववित् ।

असृजत् सर्वभूतानि स्थावराणि चराणि च ॥ ५ ॥

तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम् ।

पुराणाख्यानजिज्ञासुर्व्रजामि शरणं प्रभुम् ॥ ६ ॥

इति श्री वायुपुराणे प्रथमोऽध्याये व्यास कृत श्री ब्रह्म स्तुतिः ॥

sri brahma stuti vayu purane vyasa krutam