Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरभैरवी स्तोत्रम्

श्री भैरव उवाच-

ब्रह्मादयस्स्तुति शतैरपि सूक्ष्मरूपं

जानन्तिनैव जगदादिमनादिमूर्तिम् ।

तस्मादमूं कुचनतां नवकुङ्कुमास्यां

स्थूलां स्तुवे सकलवाङ्मयमातृभूताम् ॥ १ ॥

सद्यस्समुद्यत सहस्र दिवाकराभां

विद्याक्षसूत्रवरदाभयचिह्नहस्तां ।

नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां

त्वां तारहाररुचिरां त्रिपुरां भजामः ॥ २ ॥

सिन्दूरपूररुचिरां कुचभारनम्रां

जन्मान्तरेषु कृतपुण्य फलैकगम्यां ।

अन्योन्य भेदकलहाकुलमानभेदै-

-र्जानन्तिकिञ्जडधिय स्तवरूपमन्ये ॥ ३ ॥

स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति

सूक्ष्मां वदन्ति वचसामधिवासमन्ये ।

त्वांमूलमाहुरपरे जगताम्भवानि

मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ४ ॥

चन्द्रावतंस कलितां शरदिन्दुशुभ्रां

पञ्चाशदक्षरमयीं हृदिभावयन्ती ।

त्वां पुस्तकञ्जपपटीममृताढ्य कुम्भां

व्याख्याञ्च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ५ ॥

शम्भुस्त्वमद्रितनया कलितार्धभागो

विष्णुस्त्वमम्ब कमलापरिणद्धदेहः ।

पद्मोद्भवस्त्वमसि वागधिवासभूमि-

रेषां क्रियाश्च जगति त्रिपुरेत्वमेव ॥ ६ ॥

आश्रित्यवाग्भव भवाम्श्चतुरः परादीन्-

भावान्पदात्तु विहितान्समुदारयन्तीं ।

कालादिभिश्च करणैः परदेवतां त्वां

संविन्मयींहृदिकदापि नविस्मरामि ॥ ७ ॥

आकुञ्च्य वायुमभिजित्यच वैरिषट्कं

आलोक्यनिश्चलधिया निजनासिकाग्रां ।

ध्यायन्ति मूर्ध्नि कलितेन्दुकलावतंसं

त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥ ८ ॥

त्वं प्राप्यमन्मथरिपोर्वपुरर्धभागं

सृष्टिङ्करोषि जगतामिति वेदवादः ।

सत्यन्तदद्रितनये जगदेकमातः

नोचेद शेषजगतः स्थितिरेवनस्यात् ॥ ९ ॥

पूजांविधायकुसुमैः सुरपादपानां

पीठेतवाम्ब कनकाचल कन्दरेषु ।

गायन्तिसिद्धवनितास्सहकिन्नरीभि-

रास्वादितामृतरसारुणपद्मनेत्राः ॥ १० ॥

विद्युद्विलास वपुषः श्रियमावहन्तीं

यान्तीमुमांस्वभवनाच्छिवराजधानीं ।

सौन्दर्यमार्गकमलानिचका सयन्तीं

देवीम्भजेत परमामृत सिक्तगात्राम् ॥ ११ ॥

आनन्दजन्मभवनं भवनं श्रुतीनां

चैतन्यमात्र तनुमम्बतवाश्रयामि ।

ब्रह्मेशविष्णुभिरुपासितपादपद्मं

सौभाग्यजन्मवसतिं त्रिपुरेयथावत् ॥ १२ ॥

सर्वार्थभाविभुवनं सृजतीन्दुरूपा

यातद्बिभर्ति पुनरर्क तनुस्स्वशक्त्या ।

ब्रह्मात्मिकाहरतितं सकलम्युगान्ते

तां शारदां मनसि जातु न विस्मरामि ॥ १३ ॥

नारायणीति नरकार्णवतारिणीति

गौरीति खेदशमनीति सरस्वतीति ।

ज्ञानप्रदेति नयनत्रयभूषितेति

त्वामद्रिराजतनये विबुधा पदन्ति ॥ १४ ॥

येस्तुवन्तिजगन्मातः श्लोकैर्द्वादशभिःक्रमात् ।

त्वामनु पाप्र्यवाक्सिद्धिं प्राप्नुयुस्ते पराम्श्रियम् ॥ १५ ॥

इतिते कथितं देवि पञ्चाङ्गं भैरवीमयं ।

गुह्याद्गोप्यतमङ्गोप्यं गोपनीयं स्वयोनिवत् ॥ १६ ॥

इति श्रीरुद्रयामले उमामहेश्वर संवादे पञ्चाङ्गखण्ड निरूपणे श्रीभैरवीस्तोत्रम् ।

sri tripura bhairavi stotram