Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति वर्णमाला स्तोत्रम्

ओमित्येतद्यस्य बुधैर्नाम गृहीतं

यद्भासेदं भाति समस्तं वियदादि ।

यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥

नम्राङ्गाणां भक्तिमतां यः पुरुषार्थान्

दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।

पादाम्भोजाधस्तनितापस्मृतिमीशं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥

मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः

संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।

हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥

भद्रारूढं भद्रदमाराधयितॄणां

भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।

आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥

गर्भान्तःस्थाः प्राणिन एते भवपाश-

-च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।

आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-

-द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।

सेवन्तेऽध्यासीनमनन्तं वटमूलं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥

तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-

-न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।

तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥

दध्याज्यादिद्रव्यककर्माण्यखिलानि

त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।

यज्जिज्ञासारूपफलार्थी क्षितिदेव-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥

क्षिप्रं लोके यं भजमानः पृथुपुण्यः

प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।

प्रत्यग्भूतं ब्रह्म परं सन् रमते य-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥

णानेत्येवं यन्मनुमध्यस्थितवर्णा-

-न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।

मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-

-प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।

यस्याभ्राभा हासविधौ दक्षशिरोधि-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥

तप्तस्वर्णच्छायजटाजूटकटाह-

-प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।

नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥

येन ज्ञातेनैव समस्तं विदितं स्या-

-द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।

यं प्राप्तानां नास्ति परं प्राप्यमनादिं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥

मत्तो मारो यस्य ललाटाक्षिभवाग्नि-

-स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।

तद्भस्मासीद्यस्य सुजातः पटवास-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥

ह्यम्भोराशौ संसृतिरूपे लुठतां तत्

पारं गन्तुं यत्पदभक्तिर्दृढनौका ।

सर्वाराध्यं सर्वगमानन्दपयोधिं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥

मेधावी स्यादिन्दुवतंसं धृतवीणं

कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।

चित्ते ध्यायन् यस्य वपुर्द्राङ्निमिषार्धं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥

धाम्नां धाम प्रौढरुचीनां परमं यत्

सूर्यादीनां यस्य स हेतुर्जगदादेः ।

एतावान्यो यस्य न सर्वेश्वरमीड्यं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥

प्रत्याहारप्राणनिरोधादिसमर्थै-

-र्भक्तैर्दान्तैः सम्यतचित्तैर्यतमानैः ।

स्वात्मत्वेन ज्ञायत एव त्वरया य-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥

ज्ञांशीभूतान् प्राणिन एतान् फलदाता

चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।

कृत्ये देवः प्राक्तनकर्मानुसरः सं-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥

प्रज्ञामात्रं प्रापितसंविन्निजभक्तं

प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।

प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥

यस्याज्ञानादेव नृणां संसृतिबोधो

यस्य ज्ञानादेव विमोक्षो भवतीति ।

स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥

छन्नेऽविद्यारूपपटेनैव च विश्वं

यत्राध्यस्तं जीवपरेशत्वमपीदम् ।

भानोर्भानुष्वम्बुवदस्ताखिलभेदं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र

प्राणश्चेतः सर्वगतो यः सकलात्मा ।

कूटस्थो यः केवलसच्चित्सुखरूप-

-स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या

ज्ञाते यस्मिन् स्वात्मतयानात्मविमोहः ।

प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥

यैषा रम्यैर्मत्तमयूराभिधवृत्तै-

-रादौ क्लुप्ता यन्मनुवर्णैर्मुनिभङ्गी ।

तामेवैतां दक्षिणवक्त्रः कृपयासा-

-वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री दक्षिणामूर्ति वर्णमाला स्तोत्रम् ॥

dakshinamurthy varnamala stotram in hindi