Skip to main content
पडताळणी प्रलंबित

श्री गौरी सप्तश्लोकी स्तुतिः

करोपान्ते कान्ते वितरणरवन्ते विदधतीं

नवां वीणां शोणामभिरुचिभरेणाङ्कवदनां ।

सदा वन्दे मन्देतरमतिरहं देशिकवशा-

त्कृपालम्बामम्बां कुसुमितकदम्बाङ्कणगृहाम् ॥ १ ॥

शशिप्रख्यं मुख्यं कृतकमलसख्यं तव मुखं

सुधावासं हासं स्मितरुचिभिरासन्न कुमुदं ।

कृपापात्रे नेत्रे दुरितकरितोत्रेच नमतां

सदा लोके लोकेश्वरि विगतशोकेन मनसा ॥ २ ॥

अपि व्याधा वाधावपि सति समाधाय हृदि ता

मनौपम्यां रम्यां मुनिभिरवगम्यां तव कलां,

निजामाद्यां विद्यां नियतमनवद्यां न कलये

न मातङ्गीमङ्गीकृतसरससङ्गीतरसिकाम् ॥ ३ ॥

स्फुरद्रूपानीपावनिरुहसमीपाश्रयपरा

सुधाधाराधाराधररुचिरुदारा करुणया ।

स्तुति प्रीता गीतामुनिभिरुपनीता तव कला

त्रयीसीमा सा मामवतु सुरसामाजिकमता ॥ ४ ॥

तुलाकोटीकोटी किरणपरिपाटि दिनकरं

नखच्छायामाया शशिनलिनदायादविभवं ।

पदं सेवे भावे तव विपदभावे विलसितं

जगन्मातः प्रातः कमलमुखि नातः परतरम् ॥ ५ ॥

कनत्फालां बालां ललितशुकलीलाम्बुजकरां

लसद्धाराधारां कचविजितधाराधररुचिं ।

रमेन्द्राणीवाणी लसदसितवेणीसुमपदां

महत्सीमां श्यामामरुणगिरिवामां भज मते ॥ ६ ॥

गजारण्य़े पुण्ये श्रितजनशरण्ये भगवती

जपावर्णापर्णां तरलतरकर्णान्तनयना ।

अनाद्यन्ता शान्ताबुधजनसुसन्तानलतिका

जगन्माता पूता तुहिनगिरिजाता विजयते ॥ ७ ॥

गौर्यास्सप्तस्तुतिं नित्यं प्रभाते नियतः पठेत् ।

तस्यसर्वाणि सिद्ध्यन्ति वाञ्छितानि न सम्शयः ॥ ८ ॥

sri gauri saptashloki stuti