Skip to main content
पडताळणी प्रलंबित

श्री बाला स्तोत्रम् १

स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं

अमृतकलश विद्याज्ञान मुद्राः कराग्रैः ।

दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं

विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १ ॥

ऐङ्कारैक समस्तशत्रुरचनामावेद्य मूर्तिप्रदां

ऐश्वर्यादिकमष्टभोगफलदां ऐश्वर्यदां पुष्पिणीम् ।

ऐन्द्रव्याकरणादि शास्त्रवरदां ऐरावताराधितां

ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २ ॥

क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां

क्लीं विद्रावणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् ।

क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे

क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३ ॥

सौः शब्द प्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां

सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्य सम्पत्करीम् ।

सान्निध्यं दधतीं सदा प्रणमतां साम्राज्य लक्ष्मीप्रदां

सौः काराङ्कित पादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४ ॥

इति श्री बाला स्तोत्रम् ।

sri bala stotram