Skip to main content
पडताळणी प्रलंबित

श्री कार्तिकेयाष्टकम्

अगस्त्य उवाच ।

नमोऽस्तु बृन्दारकबृन्दवन्द्य-

-पादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमाय

गौरीहृदानन्दसमुद्भवाय ॥ १ ॥

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे

कर्त्रे समस्तस्य मनोरथानाम् ।

दात्रे रथानां परतारकस्य

हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥

अमूर्तमूर्ताय सहस्रमूर्तये

गुणाय गण्याय परात्पराय ।

अपारपाराय परापराय

नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥

नमोऽस्तु ते ब्रह्मविदां वराय

दिगम्बरायाम्बरसंस्थिताय ।

हिरण्यवर्णाय हिरण्यबाहवे

नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥

तपः स्वरूपाय तपोधनाय

तपः फलानां प्रतिपादकाय ।

सदा कुमाराय हिमारमारिणे

तृणीकृतैश्वर्य विरागिणे नमः ॥ ५ ॥

नमोऽस्तु तुभ्यं शरजन्मने विभो

प्रभातसूर्यारुणदन्तपङ्क्तये ।

बालाय चाबालपराक्रमाय षा-

-ण्मातुरायालमनातुराय ॥ ६ ॥

मीढुष्टमायोत्तरमीढुषे नमो

नमो गणानां पतये गणाय ।

नमोऽस्तु ते जन्मजरातिगाय

नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥

सर्वस्य नाथस्य कुमारकाय

क्रौञ्चारये तारकमारकाय ।

स्वाहेय गाङ्गेय च कार्तिकेय

शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥

इति श्रीस्कान्दे महापुराणे काशीखण्डे पञ्चविंशतितमोऽध्याये श्री कार्तिकेयाष्टकम् ।

sri karthikeya ashtakam