Skip to main content
पडताळणी प्रलंबित

श्री बाला पञ्चचामर स्तवः

गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् ।

प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १ ॥

निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् ।

नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २ ॥

भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् ।

कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३ ॥

स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् ।

खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४ ॥

श्मशानभूमिशायिकां विशालभीतिवारिणीम् ।

तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५ ॥

सुपट्‍टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् ।

सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६ ॥

सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् ।

ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७ ॥

सहस्रमार्गपालिका परापरात्मभव्यकाम् ।

सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८ ॥

इत्येतत्परमं गुह्यं पञ्चचामरसञ्ज्ञकम् ।

बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः ।

सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १० ॥

इति श्री बाला पञ्चचामर स्तवः ।

sri bala panchachamara stava