Skip to main content
पडताळणी प्रलंबित

श्री नटराजाष्टकम्

कुञ्जरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं

शङ्करमन्तकमानहरं स्मरदाहकलोचनमेणधरम् ।

साञ्जलियोगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं

मञ्जुलशिञ्जितरञ्जितकुञ्चितवामपदं भज नृत्यपतिम् ॥ १ ॥

पिङ्गलतुङ्गजटावलिभासुरगङ्गममङ्गलनाशकरं

पुङ्गववाहमुमाङ्गधरं रिपुभङ्गकरं सुरलोकनतम् ।

भृङ्गविनीलगलं गणनाथसुतं भज मानस पापहरं

मङ्गलदं वररङ्गपतिं भवसङ्गहरं धनराजसखम् ॥ २ ॥

पाणिनिसूत्रविनिर्मितिकारणपाणिलसड्डमरूत्थरवं

माधवनादितमर्दलनिर्गतनादलयोद्धृतवामपदम् ।

सर्वजगत्प्रलयप्रभुवह्निविराजितपाणिमुमालसितं

पन्नगभूषणमुन्नतसन्नुतमानम मानस साम्बशिवम् ॥ ३ ॥

चण्डगुणान्वितमण्डलखण्डनपण्डितमिन्दुकलाकलितं

दण्डधरान्तकदण्डकरं वरताण्डवमण्डितहेमसभम् ।

अण्डकराण्डजवाहसखं नम पाण्डवमध्यममोदकरं

कुण्डलशोभितगण्डतलं मुनिवृन्दनुतं सकलाण्डधरम् ॥ ४ ॥

व्याघ्रपदानतमुग्रतरासुरविग्रहमर्दिपदाम्बुरुहं

शक्रमुखामरवर्गमनोहरनृत्यकरं श्रुतिनुत्यगुणम् ।

व्यग्रतरङ्गितदेवधुनीधृतगर्वहरायतकेशचयं

भार्गवरावणपूजितमीशमुमारमणं भज शूलधरम् ॥ ५ ॥

आसुरशक्तिविनाशकरं बहुभासुरकायमनङ्गरिपुं

भूसुरसेवितपादसरोरुहमीश्वरमक्षरमुक्षधृतम् ।

भास्करशीतकराक्षमनातुरमाश्वरविन्दपदं भज तं

नश्वरसंसृतिमोहविनाशमहस्करदन्तनिपातकरम् ॥ ६ ॥

भूतिकरं सितभूतिधरं गतनीतिहरं वरगीतिनुतं

भक्तियुतोत्तममुक्तिकरं समशक्तियुतं शुभभुक्तिकरम् ।

भद्रकरोत्तमनामयुतं श्रुतिसामनुतं नम सोमधरं

स्तुत्यगुणं भज नित्यमगाधभवाम्बुधितारकनृत्यपतिम् ॥ ७ ॥

शूलधरं भवजालहरं निटिलाग्निधरं जटिलं धवलं

नीलगलोज्ज्वलमङ्गलसद्गिरिराजसुतामृदुपाणितलम् ।

शैलकुलाधिपमौलिनतं छलहीनमुपैमि कपालधरं

कालविषाशमनन्तमिलानुतमद्भुतलास्यकरं गिरिशम् ॥ ८ ॥

चित्तहरातुलनृत्तपतिप्रियवृत्तकृतोत्तमगीतिमिमां

प्रातरुमापतिसन्निधिगो यदि गायति भक्तियुतो मनसि ।

सर्वसुखं भुवि तस्य भवत्यमराधिपदुर्लभमत्यधिकं

नास्ति पुनर्जनिरेति च धाम स शाम्भवमुत्तममोदकरम् ॥ ९ ॥

इति श्री नटराजाष्टकम् ।

sri nataraja ashtakam