Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती दशश्लोकी स्तुतिः

ऋषय ऊचुः ।

कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।

महासरस्वती येन तुष्टा भवति तद्वद ॥ १ ॥

अश्वलायन उवाच ।

शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।

दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २ ॥

ध्यानम् –

अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।

मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३ ॥

सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।

सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४ ॥

जटाकलापसम्युक्तां पूर्णचन्द्रनिभाननाम् ।

त्रिलोचनीं महादेवीं स्वर्णनूपुरधारिणीम् ॥ ५ ॥

कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।

कम्बुकण्ठीं सुताम्रोष्टीं सर्वाभरणभूषिताम् ॥ ६ ॥

केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।

शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७ ॥

वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।

लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८ ॥

परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।

प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९ ॥

स्तुतिः –

या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।

नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १० ॥

या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११ ॥

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।

अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२ ॥

अध्यात्ममधिदेवं च देवानां सम्यगीश्वरी ।

प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३ ॥

अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।

रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४ ॥

या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।

व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५ ॥

नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।

निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६ ॥

व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।

सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥ १७ ॥

यां विदित्वाखिलं बन्धं निर्मथ्यामलवर्त्मना ।

योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८ ॥

नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।

ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ॥ १९ ॥

फलश्रुतिः –

यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।

सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ २० ॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।

भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१ ॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।

गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२ ॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।

श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३ ॥

प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।

अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४ ॥

अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।

अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५ ॥

एवं भावयता तेन बृहस्पतिरपि स्वयम् ।

न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६ ॥

न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान् ।

अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७ ॥

सर्वत्रैव प्रियं ब्रूयात् यथेच्छालब्धमात्मनः ।

श्लोकैरेव तिरस्कृत्य द्विषन्तं प्रतिवादिनम् ॥ २८ ॥

प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।

यद्वागितिद्व्यृचेनैव देवीं योऽर्चति सुव्रतः ।

तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ॥ २९ ॥

प्रथमं भारती नाम द्वितीयं च सरस्वती ।

तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३० ॥

पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।

सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१ ॥

नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।

एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३ ॥

यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।

सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४ ॥

इत्याश्वलायनमुनिर्निजगाद देव्याः

स्तोत्रं समस्तफलभोगनिधानभूतम् ।

एतत् पठन् द्विजवरः शुचितामुपैति

सन्ध्यासु वाञ्छितमुपैतिन संशयोऽत्र ॥ ३५ ॥

इति अश्वलायन प्रोक्त श्री सरस्वती दशश्लोकी स्तुतिः ॥

sri saraswati dasha shloki stuti