Skip to main content
पडताळणी प्रलंबित

आनन्दलहरी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः

प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।

न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-

-स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-

-र्विशिष्यानाख्येयो भवति रसनामात्रविषयः ।

तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः

कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥

मुखे ते ताम्बूलं नयनयुगले कज्जलकला

ललाटे काश्मीरं विलसति गले मौक्तिकलता ।

स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी

भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-

-नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।

नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती

सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४ ॥

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-

-र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।

तटित्पीता पीताम्बरललितमञ्जीरसुभगा

ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥

हिमाद्रेः सम्भूता सुललितकरैः पल्लवयुता

सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।

कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा

रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह

श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।

अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः

पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी

त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।

त्वमादिः कामानां जननि कृतकन्दर्पविजये

सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-

-स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।

पयोदः पानीयं दिशति मधुरं चातकमुखे

भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते

न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।

न चेदिष्टं दद्यादनुपदमहो कल्पलतिका

विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे

निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।

तथापि त्वच्चेतो यदि मयि न जायेत सदयं

निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं

यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।

तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि

त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियम-

-स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।

इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-

-स्त्वदासक्तं नक्तन्दिवमुचितमीशानि कुरु तत् ॥ १३ ॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-

-त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।

मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते

तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः

कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।

महेशः प्राणेशस्तदवनिधराधीशतनये

न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं

श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।

समग्रा सामग्री जगति विदितैव स्मररिपो-

-र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः

श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।

दधौ कण्ठे हालाहलमखिलभूगोलकृपया

भवत्याः सङ्गत्याः फलमिति च कल्याणि कलये ॥ १७ ॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया

भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।

तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया

प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-

-प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।

समादाय स्रष्टा चलितपदपांसून्निजकरैः

समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते

स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।

सखीभिः खेलन्तीं मलयपवनान्दोलितजले

स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ आनन्दलहरी ।

anandalahari