Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा स्तोत्रम् (शिवरहस्ये)

दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् ।

सर्वलोकप्रणेत्रीं च प्रणमामि सदाशिवाम् ॥ १ ॥

मङ्गलां शोभनां शुद्धां निष्कलां परमां कलाम् ।

विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ॥ २ ॥

सर्वदेवमयीं देवीं सर्वरोगभयापहाम् ।

ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम् ॥ ३ ॥

विन्ध्यस्थां विन्ध्यनिलयां दिव्यस्थाननिवासिनीम् ।

योगिनीं योगमातां च चण्डिकां प्रणमाम्यहम् ॥ ४ ॥

ईशानमातरं देवीमीश्वरीमीश्वरप्रियाम् ।

प्रणतोऽस्मि सदा दुर्गां संसारार्णवतारिणीम् ॥ ५ ॥

य इदं पठते स्तोत्रं शृणुयाद्वापि यो नरः ।

स मुक्तः सर्वपापैस्तु मोदते दुर्गया सह ॥ ६ ॥

इति शिवरहस्ये श्री दुर्गा स्तोत्रम् ।

sri durga stotram 2 shiva rahasye