Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तुतिः (लंकेश्वर कृतम्)

गले कलितकालिमः प्रकटितेन्दुफालस्थले

विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।

उदञ्चितकपालजं जघनसीम्नि सन्दर्शित

द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥

वृषोपरि परिस्फुरद्धवलदामधामश्रिया

कुबेरगिरि-गौरिमप्रभवगर्वनिर्वासि तत् ।

क्वचित्पुनरुमा-कुचोपचितकुङ्कुमै रञ्जितं

गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥

उदित्वर-विलोचनत्रय-विसृत्वरज्योतिषा

कलाकरकलाकर-व्यतिकरेण चाहर्निशम् ।

विकासित जटाटवी विहरणोत्सवप्रोल्लस-

त्तरामर तरङ्गिणी तरल-चूडमीडे मृडम् ॥ ३ ॥

विहाय कमलालयाविलसितानि विद्युन्नटी-

विडंबनपटूनि मे विहरणं विधत्तां मनः ।

कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ

कटी तटपटी भवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥

भवद्भवनदेहली-विकटतुण्ड-दण्डाहति

त्रुटन्मुकुटकोटिभि-र्मघवदादिभिर्भूयते ।

व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचकीं

किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥ ५ ॥

त्वदर्चनपरायण-प्रमथकन्यकालुण्ठित

प्रसूनसफलद्रुमं कमपि शैलमाशान्महे ।

अलं तटवितर्दिकाशयितसिद्ध-सीमन्तिनी

प्रकीर्ण सुमनोमनो-रमणमेरुणामेरुणा ॥ ६ ॥

न जातु हर यातु मे विषयदुर्विलासं मनो

मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।

स्फुरत्सुरतरङ्गिणी-तटकुटीरकोटा वस-

न्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७ ॥

विभूषण सुरापगा शुचितरालवालावली-

वलद्बहलसीकर-प्रकरसेकसंवर्धिता ।

महेश्वर सुरद्रुमस्फुरित-सज्जटामञ्जरी

नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८ ॥

बहिर्विषयसङ्गति-प्रतिनिवर्तिताक्षापले-

स्समाधिकलितात्मनः पशुपतेरशेषात्मनः ।

शिरस्सुरसरित्तटी-कुटिलकल्पकल्पद्रुमं

निशाकर कलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥

त्वदीय सुरवाहिनी विमलवारिधारावल-

ज्जटागहनगाहिनी मतिरियं मम क्रामतु ।

सुरोत्तमसरित्तटी-विटपिताटवी प्रोल्लस-

त्तपस्वि-परिषत्तुलाममल मल्लिकाभ प्रभो ॥ १० ॥

इति श्रीलंकेश्वरविरचिता शिवस्तुतिः ॥

lankeshwara krita shiva stuti