Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तोत्रम् (हिरण्यकशिपु कृतम्)

हिरण्यकशिपुरुवाच ।

कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।

अभिव्यनग्जगदिदं स्वयं ज्योतिः स्वरोचिषा ॥ १ ॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।

रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ २ ॥

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।

प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ ३ ॥

त्वमीशिषे जगतस्तस्थुषश्च

प्राणेन मुख्येन पतिः प्रजानाम् ।

चित्तस्य चित्तेर्मन इन्द्रियाणां

पतिर्महान् भूतगुणाशयेशः ॥ ४ ॥

त्वं सप्ततन्तून् वितनोषि तन्वा

त्रय्या चतुर्होत्रकविद्यया च ।

त्वमेव आत्माऽऽत्मवतामनादि-

-रनन्तपारः कविरन्तरात्मा ॥ ५ ॥

त्वमेव कालोऽनिमिषो जनाना-

-मायुर्लवाद्यावयवैः क्षिणोषि ।

कूटस्थ आत्मा परमेष्ठ्यजो महां-

-स्त्वं जीवलोकस्य च जीव आत्मा ॥ ६ ॥

त्वत्तः परं नापरमप्यनेज-

-देजच्च किञ्चिद्व्यतिरिक्तमस्ति ।

विद्याः कलास्ते तनवश्च सर्वा

हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः ॥ ७ ॥

व्यक्तं विभो स्थूलमिदं शरीरं

येनेन्द्रियप्राणमनोगुणांस्त्वम् ।

भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये

अव्यक्त आत्मा पुरुषः पुराणः ॥ ८ ॥

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् ।

चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ ९ ॥

इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे तृतीयोऽध्याये हिरण्यकशिपु कृत श्री ब्रह्म स्तोत्रम् ।

sri brahma stotram hiranyakashipu krutam