Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्त्यष्टकम् – ४ (वृषभदेव कृतम्)

अगणितगुणगणमप्रमेयमाद्यं

सकलजगत्स्थितिसम्यमादि हेतुम् ।

उपरतमनोयोगिहृन्मन्दिरं तं

सततमहं दक्षिणामूर्तिमीडे ॥ १ ॥

निरवधिसुखमिष्टदातारमीड्यं

नतजनमनस्तापभेदैकदक्षम् ।

भवविपिनदवाग्निनामधेयं

सततमहं दक्षिणामूर्तिमीडे ॥ २ ॥

त्रिभुवनगुरुमागमैकप्रमाणं

त्रिजगत्कारणसूत्रयोगमायम् ।

रविशतभास्वरमीहितप्रदानं

सततमहं दक्षिणामूर्तिमीडे ॥ ३ ॥

अविरतभवभावनाऽतिदूरं

पदपद्मद्वयभाविनामदूरम् ।

भवजलधिसुतारणाङ्घ्रिपोतं

सततमहं दक्षिणामूर्तिमीडे ॥ ४ ॥

कृतनिलयमनिशं वटाकमूले

निगमशिखाव्रातबोधितैकरूपम् ।

धृतमुद्राङ्गुलिगम्यचारुबोधं

सततमहं दक्षिणामूर्तिमीडे ॥ ५ ॥

द्रुहिणसुतपूजिताङ्घ्रिपद्मं

पदपद्मानतमोक्षदानदक्षम् ।

कृतगुरुकुलवासयोगिमित्रं

सततमहं दक्षिणामूर्तिमीडे ॥ ६ ॥

यतिवरहृदये सदा विभान्तं

रतिपतिशतकोटिसुन्दराङ्गमाद्यम् ।

परहितनिरतात्मनां सुसेव्यं

सततमहं दक्षिणामूर्तिमीडे ॥ ७ ॥

स्मितधवलविकासिताननाब्जं

श्रुतिसुलभं वृषभाधिरूढगात्रम् ।

सितजलजसुशोभिदेहकान्तिं

सततमहं दक्षिणामूर्तिमीडे ॥ ८ ॥

वृषभकृतमिदमिष्टसिद्धिदं

गुरुवरदेवसन्निधौ पठेद्यः ।

सकलदुरितदुःखवर्गहानिं

व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९ ॥

इति श्रीवृषभदेव कृत श्री दक्षिणामूर्त्यष्टकम् ॥

sri dakshinamurthy ashtakam 4 vrushabha deva krutam