Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी पञ्जर न्यास स्तोत्रम्

बगला पूर्वतो रक्षेदाग्नेय्यां च गदाधरी ।

पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैरृते ॥ १ ॥

जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम् ।

वायव्ये च मदोन्मत्ता कौबेर्यां च त्रिशूलिनी ॥ २ ॥

ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम ।

संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ॥ ३ ॥

ऊर्ध्वं रक्षेन्महादेवी जिह्वास्तम्भनकारिणी ।

एवं दशदिशो रक्षेद्बगला सर्वसिद्धिदा ॥ ४ ॥

एवं न्यासविधिं कृत्वा यत् किञ्चिज्जपमाचरेत् ।

तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥ ५ ॥

इति श्री बगलामुखी पञ्जर न्यास स्तोत्रम् ॥

sri bagalamukhi panjara nyasa stotram