Skip to main content
पडताळणी प्रलंबित

श्री महेश्वर पञ्चरत्न स्तोत्रम्

प्रातः स्मरामि परमेश्वरवक्त्रपद्मं

फालाक्षिकीलपरिशोषितपञ्चबाणम् ।

भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं

कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १ ॥

प्रातर्भजामि परमेश्वरबाहुदण्डान्

खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।

गौरीकपोलकुचरञ्जितपत्ररेखान्

सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥

प्रातर्नमामि परमेश्वरपादपद्मं

पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।

पद्माक्षनेत्रसरसीरुह पूजनीयं

पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ३ ॥

प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं

कर्पूरकुन्दधवलं गजचर्मचेलम् ।

गङ्गाधरं घनकपर्दिविभासमानं

कात्यायनीतनुविभूषितवामभागम् ॥ ४ ॥

प्रातः स्मरामि परमेश्वरपुण्यनाम

श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।

संसारतापशमनं कलिकल्मषघ्नं

गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५ ॥

श्रीपञ्चरत्नानि महेश्वरस्य

भक्त्या पठेद्यः प्रयतः प्रभाते ।

आयुष्यमारोग्यमनेकभोगान्

प्राप्नोति कैवल्यपदं दुरापम् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्य कृतं महेश्वर पञ्चरत्न स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

maheshwara pancharatna stotram in hindi