Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तुति पञ्चकम्

नमो नरकविद्वेषि नाभीनलिन जन्मने ।

ब्रह्मणे बृहदाकार भुवनाकारशिल्पिने ॥ १ ॥

चतुराननमम्भोज निषण्णं भारतीसखम् ।

अक्षमाला वराभीति कमण्डलुधरं भजे ॥ २ ॥

नमो विश्वसृजे तुभ्यं सत्याय परमात्मने ।

देवाय देवपतये यज्ञानां पतये नमः ॥ ३ ॥

नमस्ते लोकनाथाय नमस्ते सृष्टिकारिणे ।

नमस्ते वेदरूपाय नमस्ते ब्रह्मणे नमः ॥ ४ ॥

श्रीमद्वक्त्रारविन्द श्रुतिनिगममधुस्यन्दसन्दोहनन्दत्

विद्वद्भृङ्गाय गङ्गाहिमगिरिविलसत्पक्षहंसध्वजाय ।

भाषायोषित्प्रियाय प्रणतिकृतशिवप्राणि नाथप्रणामं

कुर्मो धर्मैकधाम्ने वयमखिलजगत्कर्मणेब्रह्मणे ते ॥ ५ ॥

इति श्री ब्रह्म स्तुति पञ्चकम् ॥

sri brahma stuti panchakam