Skip to main content
पडताळणी प्रलंबित

श्री शारदा स्तवकदम्बम्

हेलया रचितचित्रविष्टपां

चेलधूतशरदभ्रविभ्रमाम् ।

कालटीपुरनिवासदीक्षितां

कालकालसहजां नुमो वयम् ॥ १ ॥

नास्तिक्यबुद्धिहतमानसवारिजातां-

-स्त्यक्तात्मकर्मनिचयान् बहुशो द्विजाद्यान् ।

कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-

-वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व ॥ २ ॥

ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-

-र्लोकान्तरं च निजकर्मकृतां सुखापम् ।

पापानि पापफलदाश्च तथैव लोका

इत्यम्ब लोकततये वितराशु बुद्धिम् ॥ ३ ॥

ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या

रज्जूरगादिवदतो न हि सौख्यलेशः ।

तस्मादिति प्रवितराम्ब दृढां मनीषां

नम्रालयेऽतिसुखमाप्स्यति येन शीघ्रम् ॥ ४ ॥

या शृङ्गशैलशिखरे यतिरूपधर्त्रा

संस्थापितापि गिरिजापतिना पुरा सा ।

कालट्यभिख्यविषयेऽपि मयार्थिता त्वं

वासं कुरुष्व जगतामवनाय वाणि ॥ ५ ॥

नाकाधिराजमुखलेखवरार्चितायै

रकाशशाङ्कनिभवस्त्रविभूषितायै ।

मूकालयेऽपि तरसा कविताप्रदायै

एकाजपुण्यततये तनुमो नमांसि ॥ ६ ॥

सरस्वति सरस्वति प्रपतितानबोधाह्वये

शरीरजमुखाख्यषण्मकरतोऽतिसम्भीषणे ।

षडूर्मिसहिते जनान् करुणया तु निर्व्याजया

समुद्धर समुद्धर द्रुहिणपुण्यराशे जवात् ॥ ७ ॥

मुद्रापुस्तकमालिकाऽमृतघटभ्राजत्कराम्भोरुहे

विद्राव्याशु चिरात्तमान्ध्यमखिलं दुस्त्याज्यमन्यैर्जनैः ।

शीघ्रं तत्त्वमसीति बोधमचलं दत्त्वा कृपावारिधे

वाणि त्वच्चरणारविन्दशरणं शुद्धान्तरङ्गं कुरु ॥ ८ ॥

किं ब्रूषे वचसां सवित्रि जनतानास्तिक्यबुद्धिर्ध्रुवा

कालात्तिष्ययुगान्न चान्यथयितुं शक्येति किं सुष्ठु तत् ।

कालाखर्वमनःसमुन्नतिहरश्रीशम्भुसोदर्यपि

त्वं भूत्वा कथमद्य कालकलितं दौःस्थ्यं ब्रवीष्यम्बिके ॥ ९ ॥

यस्माज्जडानुग्रहदीक्षितस्य

शम्भोः स्वसारं भवतीं वदन्ति

तस्मात् स्वसृत्वं गिरिशस्य सार्थं

कुरुष्व शीघ्रं मम धीप्रदानात् ॥ १० ॥

आजन्मनस्तेऽङ्घ्रियुगं गतानां

चित्तं सितं चेत्प्रकरोषि वाणि

चित्रं न तत्तन्मलिनाग्रगण्यं

मत्कं सितं कुर्वरमम्ब चित्तम् ॥ ११ ॥

सान्निध्यमस्मिन् कुरु मूर्तिवर्ये

चिरं कृपातो जगदम्ब वाणि ।

प्रवर्तयासेतुतुषारशैलं

सद्धर्ममेनं जगतां हिताय ॥ १२ ॥

सन्ध्यादिकर्माण्यपि हा विहाय

रात्रिन्दिवं स्वोदरपूरणेच्छून् ।

नरानिमान् पापभयेन शून्यान्

सतो विधायाश्वव वाक्सवित्रि ॥ १३ ॥

मालासुधाकुम्भविबोधमुद्रा-

-विद्याविराजत्करवारिजाताम् ।

अपारकारुण्यसुधाम्बुराशिं

श्रीशारदाम्बां प्रणतोऽस्मि नित्यम् ॥ १४ ॥

समागतोऽध्येतुमयं ध्वनिं किं

कीरार्भकस्त्वत्करपद्मसंस्थः ।

तवाधरे बिम्बधियात्तुमम्ब

समागतो वा वद धातृजाये ॥ १५ ॥

वाणि पाणिजितरक्तपयोजे

शोणिताम्बरधरेऽधरकान्त्या ।

पाणिना धरसि किं शुकमेनं

प्राणिबोधनकृतेऽखिलगुप्तेः ॥ १६ ॥

शारदाम्बुदसमाननिजाभां

नीरजाभकचसंहतिरम्याम् ।

पारदां लघु भवाख्यपयोधेः

शारदाम्ब कलयामि तनुं ते ॥ १७ ॥

बालचन्द्रपरिचुम्बितशीर्षां

लीलयैव परिरक्षितलोकाम् ।

नीलनागसदृशाकृतिवेणीं

शीलयामि हृदये विधिकान्ताम् ॥ १८ ॥

इति श्रीकालटिक्षेत्रे शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-

भारतीस्वामिभिः विरचितं श्री शारदा स्तवकदम्बम् ॥

sri sharada stava kadambam