Skip to main content
पडताळणी प्रलंबित

श्री वाराही निग्रहाष्टकम्

देवि क्रोडमुखि त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने

मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।

तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-

-पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १ ॥

देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि

प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।

यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः

सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥ २ ॥

चण्डोत्तुण्डविदीर्णदंष्ट्रहृदयप्रोद्भिन्नरक्तच्छटा

हालापानमदाट्‍टहासनिनदाटोपप्रतापोत्कटम् ।

मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वयं

ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात् ॥ ३ ॥

श्यामां तामरसाननाङ्घ्रिनयनां सोमार्धचूडां जग-

-त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।

ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां

भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४ ॥

विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्र्यात्मिका

भूतान्ता पुरुषायुषावधिकरी पाकप्रदाकर्मणाम् ।

त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधीजन-

-स्तस्यायुर्मम वाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥ ५ ॥

मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं

यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे ।

जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं

भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६ ॥

वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं

सीदन्तं यमपाकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।

क्रन्दद्बन्धुजनैः कलङ्किततुलं कण्ठव्रणोद्यत्कृमि

पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७ ॥

वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे

शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये ।

त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये

तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ८ ॥

इति श्रीवाराहीनिग्रहाष्टकम् ।

sri varahi nigraha ashtakam