Skip to main content
पडताळणी प्रलंबित

शत्रुसंहारक एकदन्त स्तोत्रम्

देवर्षय ऊचुः ।

नमस्ते गजवक्त्राय गणेशाय नमो नमः ।

अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ १ ॥

आदिमध्यान्तहीनाय चराचरमयाय ते ।

अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २ ॥

कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।

सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ ३ ॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।

ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ ४ ॥

परशुं दधते तुभ्यं कमलेन प्रशोभिने ।

पाशाभयधरायैव महोदर नमो नमः ॥ ५ ॥

मूषकारूढदेवाय मूषकध्वजिने नमः ।

आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ६ ॥

गुणसम्युक्तकायाय निर्गुणात्मकमस्तक ।

तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ७ ॥

वेदान्तगोचरायैव वेदान्तालभ्यकाय ते ।

योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ८ ॥

अपारगुणधारायानन्तमायाप्रचालक ।

नानावतारभेदाय शान्तिदाय नमो नमः ॥ ९ ॥

वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।

ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ १० ॥

एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसम्युताः ।

साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ११ ॥

एकदन्त उवाच ।

वरं वृणुत देवेशा मुनयश्च यथेप्सितम् ।

दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ १२ ॥

भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।

पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ १३ ॥

शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् ।

पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ १४ ॥

इति श्रीमन्मुद्गलपुराणे द्वितीयेखण्डे एकदन्तचरिते द्विपञ्चाशत्तमोऽध्याये एकदन्तस्तोत्रं सम्पूर्णम् ।

shatru samharaka ekadanta stotram