Skip to main content
पडताळणी प्रलंबित

श्री वल्लभेश हृदयम्

श्रीदेव्युवाच ।

वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर ।

श्रीशिव उवाच ।

ऋष्यादिकं मूलमन्त्रवदेव परिकीर्तितम् ॥ १ ॥

ओं विघ्नेशः पूर्वतः पातु गणनाथस्तु दक्षिणे ।

पश्चिमे गजवक्त्रस्तु उत्तरे विघ्ननाशनः ॥ २ ॥

आग्नेय्यां पितृभक्तस्तु नैऋत्यां स्कन्दपूर्वजः ।

वायव्यामाखुवाहस्तु ईशान्यां देवपूजितः ॥ ३ ॥

ऊर्ध्वतः पातु सुमुखो ह्यधरायां गजाननः ।

एवं दशदिशो रक्षेत् विकटः पापनाशनः ॥ ४ ॥

शिखायां कपिलः पातु मूर्धन्याकाशरूपधृक् ।

किरीटिः पातु नः फालं भ्रुवोर्मध्ये विनायकः ॥ ५ ॥

चक्षुषी मे त्रिनयनः श्रवणौ गजकर्णकः ।

कपोलयोर्मदनिधिः कर्णमूले मदोत्कटः ॥ ६ ॥

सदन्तो दन्तमध्येऽव्यात् वक्त्रं पातु हरात्मजः ।

चिबुके नासिके चैव पातु मां पुष्करेक्षणः ॥ ७ ॥

उत्तरोष्ठे जगद्व्यापी त्वधरोष्ठेऽमृतप्रदः ।

जिह्वां विद्यानिधिः पातु तालुन्यापत्सहायकः ॥ ८ ॥

किन्नरैः पूजितः कण्ठं स्कन्धौ पातु दिशाम्पतिः ।

चतुर्भुजो भुजौ पातु बाहुमूलेऽमरप्रियः ॥ ९ ॥

अंसयोरम्बिकासूनुरङ्गुलीश्च हरिप्रियः ।

आन्त्रं पातु स्वतन्त्रो मे मनः प्रह्लादकारकः ॥ १० ॥

प्राणाऽपानौ तथा व्यानमुदानं च समानकम् ।

यशो लक्ष्मीं च कीर्तिं च पातु नः कमलापतिः ॥ ११ ॥

हृदयं तु परम्ब्रह्मस्वरूपो जगदिपतिः ।

स्तनौ तु पातु विष्णुर्मे स्तनमध्यं तु शाङ्करः ॥ १२ ॥

उदरं तुन्दिलः पातु नाभिं पातु सुनाभिकः ।

कटिं पात्वमलो नित्यं पातु मध्यं तु पावनः ॥ १३ ॥

मेढ्रं पातु महायोगी तत्पार्श्वं सर्वरक्षकः ।

गुह्यं गुहाग्रजः पातु अणुं पातु जितेन्द्रियः ॥ १४ ॥

शुक्लं पातु सुशुक्लस्तु ऊरू पातु सुखप्रदः ।

जङ्घदेशे ह्रस्वजङ्घो जानुमध्ये जगद्गुरुः ॥ १५ ॥

गुल्फौ रक्षाकरः पातु पादौ मे नर्तनप्रियः ।

सर्वाङ्गं सर्वसन्धौ च पातु देवारिमर्दनः ॥ १६ ॥

पुत्रमित्रकलत्रादीन् पातु पाशाङ्कुशाधिपः ।

धनधान्यपशूंश्चैव गृहं क्षेत्रं निरन्तरम् ॥ १७ ॥

पातु विश्वात्मको देवो वरदो भक्तवत्सलः ।

रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ १८ ॥

तत्सर्वं रक्षयेद्देवो मार्गवासी जितेन्द्रियः ।

अटव्यां पर्वताग्रे वा मार्गे मानावमानगे ॥ १९ ॥

जलस्थलगतो वाऽपि पातु मायापहारकः ।

सर्वत्र पातु देवेशः सप्तलोकैकसंश्रितः ॥ २० ॥

फलश्रुतिः ।

य इदं कवचं पुण्यं पवित्रं पापनाशनम् ।

प्रातःकाले जपेन्मर्त्यः सदा भयविनाशनम् ॥ २१ ॥

कुक्षिरोगप्रशमनं लूतास्फोटनिवारणम् ।

मूत्रकृच्छ्रप्रशमनं बहुमूत्रनिवारणम् ॥ २२ ॥

बालग्रहादिरोगाणांनाशनं सर्वकामदम् ।

यः पठेद्धारयेद्वाऽपि करस्थास्तस्य सिद्धयः ।

यत्र यत्र गतश्चाऽपि तत्र तत्राऽर्थसिद्धिदम् ॥ २३ ॥

यश्शृणोति पठति द्विजोत्तमो

विघ्नराजकवचं दिने दिने ।

पुत्रपौत्रसुकलत्रसम्पदः

कामभोगमखिलांश्च विन्दति ॥ २४ ॥

यो ब्रह्मचारिणमचिन्त्यमनेकरूपं

ध्यायेज्जगत्रयहितेरतमापदघ्नम् ।

सर्वार्थसिद्धिं लभते मनुष्यो

विघ्नेशसायुज्यमुपेन्न संशयः ॥ २५ ॥

इति श्रीविनायकतन्त्रे श्रीवल्लभेशहृदयं सम्पूर्णम् ।

sri vallabhesha hrudayam