Skip to main content
पडताळणी प्रलंबित

श्री स्कन्द स्तवम्

वामदेव उवाच ।

ओं नमः प्रणवार्थाय प्रणवार्थविधायिने ।

प्रणवाक्षरबीजाय प्रणवाय नमो नमः ॥ १ ॥

वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।

वेदान्तार्थविदे नित्यं विदिताय नमो नमः ॥ २ ॥

नमो गुहाय भूतानां गुहासु निहिताय च ।

गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ ३ ॥

अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।

नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ ४ ॥

स्कन्दाय स्कन्दरूपाय मिहिरारुणतेजसे ।

नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ ५ ॥

शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।

शिवप्रियाय शिवयोरानन्दनिधये नम ॥ ६ ॥

गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।

उमापुत्राय महते शरकाननशायिने ॥ ७ ॥

षडक्षरशरीराय षड्विधार्थविधायिने ।

षडध्वातीतरूपाय षण्मुखाय नमो नमः ॥ ८ ॥

द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।

द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ९ ॥

चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।

वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ १० ॥

गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।

नमो गजाननानन्दमहिमानन्दितात्मने ॥ ११ ॥

ब्रह्मादिदेवमुनिकिन्नरगीयमान-

-गाथाविशेषशुचिचिन्तितकीर्तिधाम्ने ।

बृन्दारकामलकिरीटविभूषणस्र-

-क्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ १२ ॥

इति स्कन्दस्तवं दिव्यं वामदेवेन भाषितम् ।

यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ १३ ॥

महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम् ।

आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ १४ ॥

इति श्रीशिवमहापुराणे कैलाससंहितायां एकादशोऽध्याये वामदेवकृत स्कन्दस्तवम् ।

sri skanda stavam