Skip to main content
पडताळणी प्रलंबित

अट्टालसुन्दराष्टकम्

विक्रमपाण्ड्य उवाच-

कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् ।

कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥ १ ॥

कालकूटप्रभाजालकलङ्कीकृतकन्धरम् ।

कलाधरं कलामौलिं कलयेऽट्टालसुन्दरम् ॥ २ ॥

कालकालं कलातीतं कलावन्तं च निष्कलम् ।

कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥ ३ ॥

कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् ।

कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥ ४ ॥

कदम्बकाननाधीशं काङ्क्षितार्थसुरद्रुमम् ।

कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥ ५ ॥

सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च ।

रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥ ६ ॥

स्वभक्तजनसन्तापपापापद्भङ्गतत्परम् ।

कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥ ७ ॥

कुलशेखरवंशोत्थभूपानां कुलदैवतम् ।

परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥ ८ ॥

अट्टालवीरश्रीशम्भोरष्टकं वरमिष्टदम् ।

पठतां शृण्वतां सद्यस्तनोतु परमां श्रियम् ॥ ९ ॥

इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् ।

attala sundara ashtakam