Skip to main content
पडताळणी प्रलंबित

श्री कमला स्तोत्रम् २

श्रीशङ्कर उवाच ।

अथातः सम्प्रवक्ष्यामि लक्ष्मीस्तोत्रमनुत्तमम् ।

पठनाच्छ्रवणाद्यस्य नरो मोक्षमवाप्नुयात् ॥ १ ॥

गुह्याद्गुह्यतरं पुण्यं सर्वदेवनमस्कृतम् ।

सर्वमन्त्रमयं साक्षाच्छृणु पर्वतनन्दिनि ॥ २ ॥

अनन्तरूपिणी लक्ष्मीरपारगुणसागरी ।

अणिमादिसिद्धिदात्री शिरसा प्रणमाम्यहम् ॥ ३ ॥

आपदुद्धारिणी त्वं हि आद्या शक्तिः शुभा परा ।

आद्या आनन्ददात्री च शिरसा प्रणमाम्यहम् ॥ ४ ॥

इन्दुमुखी इष्टदात्री इष्टमन्त्रस्वरूपिणी ।

इच्छामयी जगन्मातः शिरसा प्रणमाम्यहम् ॥ ५ ॥

उमा उमापतेस्त्वन्तु ह्युत्कण्ठाकुलनाशिनी ।

उर्वीश्वरी जगन्मातर्लक्ष्मि देवि नमोऽस्तु ते ॥ ६ ॥

ऐरावतपतिपूज्या ऐश्वर्याणां प्रदायिनी ।

औदार्यगुणसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥ ७ ॥

कृष्णवक्षःस्थिता देवि कलिकल्मषनाशिनी ।

कृष्णचित्तहरा कर्त्री शिरसा प्रणमाम्यहम् ॥ ८ ॥

कन्दर्पदमना देवि कल्याणी कमलानना ।

करुणार्णवसम्पूर्णा शिरसा प्रणमाम्यहम् ॥ ९ ॥

खञ्जनाक्षी खगनासा देवि खेदविनाशिनी ।

खञ्जरीटगतिश्चैव शिरसा प्रणमाम्यहम् ॥ १० ॥

गोविन्दवल्लभा देवी गन्धर्वकुलपावनी ।

गोलोकवासिनी मातः शिरसा प्रणमाम्यहम् ॥ ११ ॥

ज्ञानदा गुणदा देवि गुणाध्यक्षा गुणाकरी ।

गन्धपुष्पधरा मातः शिरसा प्रणमाम्यहम् ॥ १२ ॥

घनश्यामप्रिया देवि घोरसंसारतारिणी ।

घोरपापहरा चैव शिरसा प्रणमाम्यहम् ॥ १३ ॥

चतुर्वेदमयी चिन्त्या चित्तचैतन्यदायिनी ।

चतुराननपूज्या च शिरसा प्रणमाम्यहम् ॥ १४ ॥

चैतन्यरूपिणी देवि चन्द्रकोटिसमप्रभा ।

चन्द्रार्कनखरज्योतिर्लक्ष्मि देवि नमाम्यहम् ॥ १५ ॥

चपला चतुराध्यक्षी चरमे गतिदायिनी ।

चराचरेश्वरी लक्ष्मि शिरसा प्रणमाम्यहम् ॥ १६ ॥

छत्रचामरयुक्ता च छलचातुर्यनाशिनी ।

छिद्रौघहारिणी मातः शिरसा प्रणमाम्यहम् ॥ १७ ॥

जगन्माता जगत्कर्त्री जगदाधाररूपिणी ।

जयप्रदा जानकी च शिरसा प्रणमाम्यहम् ॥ १८ ॥

जानकीशप्रिया त्वं हि जनकोत्सवदायिनी ।

जीवात्मनां च त्वं मातः शिरसा प्रणमाम्यहम् ॥ १९ ॥

झिञ्जीरवस्वना देवि झञ्झावातनिवारिणी ।

झर्झरप्रियवाद्या च शिरसा प्रणमाम्यहम् ॥ २० ॥

टङ्ककदायिनी त्वं हि त्वं च ठक्काररूपिणी । [अर्थप्रदायिनीं]

ढक्कादिवाद्यप्रणया डम्फवाद्यविनोदिनी ।

डमरुप्रणया मातः शिरसा प्रणमाम्यहम् ॥ २१ ॥

तप्तकाञ्चनवर्णाभा त्रैलोक्यलोकतारिणी ।

त्रिलोकजननी लक्ष्मि शिरसा प्रणमाम्यहम् ॥ २२ ॥

त्रैलोक्यसुन्दरी त्वं हि तापत्रयनिवारिणी ।

त्रिगुणधारिणी मातः शिरसा प्रणमाम्यहम् ॥ २३ ॥

त्रैलोक्यमङ्गला त्वं हि तीर्थमूलपदद्वया ।

त्रिकालज्ञा त्राणकर्त्री शिरसा प्रणमाम्यहम् ॥ २४ ॥

दुर्गतिनाशिनी त्वं हि दारिद्र्यापद्विनाशिनी ।

द्वारकावासिनी मातः शिरसा प्रणमाम्यहम् ॥ २५ ॥

देवतानां दुराराध्या दुःखशोकविनाशिनी ।

दिव्याभरणभूषाङ्गी शिरसा प्रणमाम्यहम् ॥ २६ ॥

दामोदरप्रिया त्वं हि दिव्ययोगप्रदर्शिनी ।

दयामयी दयाध्यक्षी शिरसा प्रणमाम्यहम् ॥ २७ ॥

ध्यानातीता धराध्यक्षा धनधान्यप्रदायिनी ।

धर्मदा धैर्यदा मातः शिरसा प्रणमाम्यहम् ॥ २८ ॥

नवगोरोचना गौरी नन्दनन्दनगेहिनी ।

नवयौवनचार्वङ्गी शिरसा प्रणमाम्यहम् ॥ २९ ॥

नानारत्नादिभूषाढ्या नानारत्नप्रदायिनी ।

नितम्बिनी नलिनाक्षी लक्ष्मि देवि नमोऽस्तु ते ॥ ३० ॥

निधुवनप्रेमानन्दा निराश्रयगतिप्रदा ।

निर्विकारा नित्यरूपा लक्ष्मि देवि नमोऽस्तु ते ॥ ३१ ॥

पूर्णानन्दमयी त्वं हि पूर्णब्रह्मसनातनी ।

पराशक्तिः पराभक्तिर्लक्ष्मि देवि नमोऽस्तु ते ॥ ३२ ॥

पूर्णचन्द्रमुखी त्वं हि परानन्दप्रदायिनी ।

परमार्थप्रदा लक्ष्मि शिरसा प्रणमाम्यहम् ॥ ३३ ॥

पुण्डरीकाक्षिणी त्वं हि पुण्डरीकाक्षगेहिनी ।

पद्मरागधरा त्वं हि शिरसा प्रणमाम्यहम् ॥ ३४ ॥

पद्मा पद्मासना त्वं हि पद्ममालाविधारिणी ।

प्रणवरूपिणी मातः शिरसा प्रणमाम्यहम् ॥ ३५ ॥

फुल्लेन्दुवदना त्वं हि फणिवेणि विमोहिनी ।

फणिशायिप्रिया मातः शिरसा प्रणमाम्यहम् ॥ ३६ ॥

विश्वकर्त्री विश्वभर्त्री विश्वत्रात्री विश्वेश्वरी ।

विश्वाराध्या विश्वबाह्या लक्ष्मि देवि नमोऽस्तु ते ॥ ३७ ॥

विष्णुप्रिया विष्णुशक्तिर्बीजमन्त्रस्वरूपिणी ।

वरदा वाक्यसिद्धा च शिरसा प्रणमाम्यहम् ॥ ३८ ॥

वेणुवाद्यप्रिया त्वं हि वंशीवाद्यविनोदिनी ।

विद्युद्गौरी महादेवि लक्ष्मि देवि नमोऽस्तु ते ॥ ३९ ॥

भुक्तिमुक्तिप्रदा त्वं हि भक्तानुग्रहकारिणी ।

भवार्णवत्राणकर्त्री लक्ष्मि देवि नमोऽस्तु ते ॥ ४० ॥

भक्तप्रिया भागीरथी भक्तमङ्गलदायिनी ।

भयदाऽभयदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४१ ॥

मनोऽभीष्टप्रदा त्वं हि महामोहविनाशिनी ।

मोक्षदा मानदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४२ ॥

महाधन्या महामान्या माधवमनमोहिनी ।

मुखराप्राणहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४३ ॥

यौवनपूर्णसौन्दर्या योगमाया योगेश्वरी ।

युग्मश्रीफलवृक्षा च लक्ष्मि देवि नमोऽस्तु ते ॥ ४४ ॥

युग्माङ्गदविभूषाढ्या युवतीनां शिरोमणिः ।

यशोदासुतपत्नी च लक्ष्मि देवि नमोऽस्तु ते ॥ ४५ ॥

रूपयौवनसम्पन्ना रत्नालङ्कारधारिणी ।

राकेन्दुकोटिसौन्दर्या लक्ष्मि देवि नमोऽस्तु ते ॥ ४६ ॥

रमा रामा रामपत्नी राजराजेश्वरी तथा ।

राज्यदा राज्यहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४७ ॥

लीलालावण्यसम्पन्ना लोकानुग्रहकारिणी ।

ललना प्रीतिदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥ ४८ ॥

विद्याधरी तथा विद्या वसुदा त्वं हि वन्दिता ।

विन्ध्याचलवासिनी च लक्ष्मि देवि नमोऽस्तु ते ॥ ४९ ॥

शुभ्रकाञ्चनगौराङ्गी शङ्खकङ्कणधारिणी ।

शुभदा शीलसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥ ५० ॥

षट्चक्रभेदिनी त्वं हि षडैश्वर्यप्रदायिनी ।

षोडशी वयसा त्वं हि लक्ष्मि देवि नमोऽस्तु ते ॥ ५१ ॥

सदानन्दमयी त्वं हि सर्वसम्पत्तिदायिनी ।

संसारतारिणी देवि शिरसा प्रणमाम्यहम् ॥ ५२ ॥

सुकेशी सुखदा देवि सुन्दरी सुमनोरमा ।

सुरेश्वरी सिद्धिदात्री शिरसा प्रणमाम्यहम् ॥ ५३ ॥

सर्वसङ्कटहन्त्री त्वं सत्यसत्त्वगुणान्विता ।

सीतापतिप्रिया देवि शिरसा प्रणमाम्यहम् ॥ ५४ ॥

हेमाङ्गिनी हास्यमुखी हरिचित्तविमोहिनी ।

हरिपादप्रिया देवि शिरसा प्रणमाम्यहम् ॥ ५५ ॥

क्षेमङ्करी क्षमादात्री क्षौमवासविधारिणी ।

क्षीणमध्या च क्षेत्राङ्गी लक्ष्मि देवि नमोऽस्तु ते ॥ ५६ ॥

श्रीशङ्कर उवाच ।

अकारादि क्षकारान्तं लक्ष्मीदेव्याः स्तवं शुभम् ।

पठितव्यं प्रयत्नेन त्रिसन्ध्यं च दिने दिने ॥ ५७ ॥

पूजनीया प्रयत्नेन कमला करुणामयी ।

वाञ्छाकल्पलता साक्षाद्भुक्तिमुक्तिप्रदायिनी ॥ ५८ ॥

इदं स्तोत्रं पठेद्यस्तु शृणुयाच्छ्रावयेदपि ।

इष्टसिद्धिर्भवेत्तस्य सत्यं सत्यं हि पार्वति ॥ ५९ ॥

इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिसम्युतः ।

तं च दृष्ट्वा भवेन्मूको वादी सत्यं न संशयः ॥ ६० ॥

शृणुयाच्छ्रावयेद्यस्तु पठेद्वा पाठयेदपि ।

राजानो वशमायान्ति तं दृष्ट्वा गिरिनन्दिनि ॥ ६१ ॥

तं दृष्ट्वा दुष्टसङ्घाश्च पलायन्ते दिशो दश ।

भूतप्रेतग्रहा यक्षा राक्षसाः पन्नगादयः ।

विद्रवन्ति भयार्ता वै स्तोत्रस्यापि च कीर्तनात् ॥ ६२ ॥

सुराश्च असुराश्चैव गन्धर्वाः किन्नरादयः ।

प्रणमन्ति सदा भक्त्या तं दृष्ट्वा पाठकं मुदा ॥ ६३ ॥

धनार्थी लभते चार्थं पुत्रार्थी च सुतं लभेत् ।

राज्यार्थी लभते राज्यं स्तवराजस्य कीर्तनात् ॥ ६४ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महापापोपपापं च तरन्ति स्तवकीर्तनात् ॥ ६५ ॥

गद्यपद्यमयी वाणी मुखात्तस्य प्रजायते ।

अष्टसिद्धिमवाप्नोति लक्ष्मीस्तोत्रस्य कीर्तनात् ॥ ६६ ॥

वन्ध्या चापि लभेत् पुत्रं गर्भिणी प्रसवेत्सुतम् ।

पठनात् स्मरणात् सत्यं वच्मि ते गिरिनन्दिनि ॥ ६७ ॥

भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।

भक्त्या सम्पूजयेद्यस्तु गन्धपुष्पाक्षतैस्तथा ॥ ६८ ॥

धारयेद्दक्षिणे बाहौ पुरुषः सिद्धिकाङ्क्षया ।

योषिद्वामभुजे धृत्वा सर्वसौख्यमयी भवेत् ॥ ६९ ॥

विषं निर्विषतां याति अग्निर्याति च शीतताम् ।

शत्रवो मित्रतां यान्ति स्तवस्यास्य प्रसादतः ॥ ७० ॥

बहुना किमिहोक्तेन स्तवस्यास्य प्रसादतः ।

वैकुण्ठे च वसेन्नित्यं सत्यं वच्मि सुरेश्वरि ॥ ७१ ॥

इति रुद्रयामले शिवगौरीसंवादे अकारादिक्षकारान्तवर्णग्रथितं श्री कमला स्तवः ।

sri kamala stotram 2