Skip to main content
पडताळणी प्रलंबित

प्रदोषस्तोत्राष्टकम्

सत्यं ब्रवीमि परलोकहितं ब्रवीमि

सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।

संसारमुल्बणमसारमवाप्य जन्तोः

सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १ ॥

ये नार्चयन्ति गिरिशं समये प्रदोषे

ये नार्चितं शिवमपि प्रणमन्ति चान्ये ।

एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढा-

-स्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ २ ॥

ये वै प्रदोषसमये परमेश्वरस्य

कुर्वन्त्यनन्यमनसोङ्घ्रिसरोजपूजाम् ।

नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-

-सौभाग्यसम्पदधिकास्त इहैव लोके ॥ ३ ॥

कैलासशैलभवने त्रिजगज्जनित्रीं

गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।

नृत्यं विधातुमभिवाञ्छति शूलपाणौ

देवाः प्रदोषसमयेऽनुभजन्ति सर्वे ॥ ४ ॥

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज-

-स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।

विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात् स्थिताः

सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥ ५ ॥

गन्धर्वयक्षपतगोरगसिद्धसाध्या

विद्याधरामरवराप्सरसां गणांश्च ।

येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः

प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥ ६ ॥

अतः प्रदोषे शिव एक एव

पूज्योऽथ नान्ये हरिपद्मजाद्याः ।

तस्मिन्महेशे विधिनेज्यमाने

सर्वे प्रसीदन्ति सुराधिनाथाः ॥ ७ ॥

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः

प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः ।

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि

तद्दोषपरिहारार्थं शरणं यातु शङ्करम् ॥ ८ ॥

इति श्रीस्कान्दपुराणे ब्रह्मखण्डे तृतीये ब्रह्मोत्तरखण्डे षष्ठोऽध्याये शाण्डिल्य कृत प्रदोषस्तोत्राष्टकम् ।

pradoshastotra ashtakam in hindi