Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति स्तुतिः

मौनव्याख्या प्रकटितपरब्रह्मतत्त्वं युवानं

वर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।

आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं

स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १ ॥

वटविटपिसमीपे भूमिभागे निषण्णं

सकलमुनिजनानां ज्ञानदातारमारात् ।

त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं

जननमरणदुःखच्छेददक्षं नमामि ॥ २ ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।

गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ३ ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।

गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ ४ ॥

ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।

निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ ५ ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।

व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ६ ॥

इति श्री दक्षिणामूर्ति स्तुतिः ॥

श्री दक्षिणामूर्ति अष्टकम् (विश्वं दर्पण दृश्यमान..) >>

sri dakshinamurthy stuti