Skip to main content
पडताळणी प्रलंबित

श्री कालभैरव पञ्चरत्न स्तुतिः

खड्गं कपालं डमरुं त्रिशूलं

हस्ताम्बुजे सन्दधतं त्रिणेत्रम् ।

दिगम्बरं भस्मविभूषिताङ्गं

नमाम्यहं भैरवमिन्दुचूडम् ॥ १ ॥

कवित्वदं सत्वरमेव मोदा-

-न्नतालये शम्भुमनोऽभिरामम् ।

नमामि यानीकृतसारमेयं

भवाब्धिपारं गमयन्तमाशु ॥ २ ॥

जरादिदुःखौघविभेददक्षं

विरागिसंसेव्यपदारविन्दम् ।

नराधिपत्वप्रदमाशु नन्त्रे

सुराधिपं भैरवमानतोऽस्मि ॥ ३ ॥

शमादिसम्पत्प्रदमानतेभ्यो

रमाधवाद्यर्चितपादपद्मम् ।

समाधिनिष्ठैस्तरसाधिगम्यं

नमाम्यहं भैरवमादिनाथम् ॥ ४ ॥

गिरामगम्यं मनसोऽपि दूरं

चराचरस्य प्रभवादिहेतुम् ।

कराक्षिपच्छून्यमथापि रम्यं

परावरं भैरवमानतोऽस्मि ॥ ५ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचिता श्री कालभैरव पञ्चरत्न स्तुतिः ॥

sri kala bhairava pancharatna stuti