Skip to main content
पडताळणी प्रलंबित

तीक्ष्णदंष्ट्र कालभैरवाष्टकम्

यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं

सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चन्द्रबिम्बम् ।

दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं

पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १ ॥

रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं

घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् ।

कं कं कं कालपाशं धृक धृक धृकितं ज्वालितं कामदाहं

तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ २ ॥

लं लं लं लं वदन्तं लललल ललितं दीर्घजिह्वा करालं

धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।

रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं

नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ३ ॥

वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं

खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।

चं चं चं चलित्वाऽचल चल चलिताच्चालितं भूमिचक्रं

मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४ ॥

शं शं शं शङ्खहस्तं शशिकरधवलं मोक्ष सम्पूर्ण तेजं

मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।

यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं

अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ५ ॥

खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं

क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम् ।

हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं

वं वं वं वाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ६ ॥

सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं

पं पं पं पद्मनाभं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम् ।

ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं

रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ७ ॥

हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं

नं नं नं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम् । [धं‍धं‍धं]

टं टं टं टङ्कारनादं त्रिदशलटलटं कामगर्वापहारं

भुं भुं भुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ८ ॥

इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो

निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।

नश्येद्धि व्याघ्रसर्पौ हुतवह सलिले राज्यशंसस्य शून्यं

सर्वा नश्यन्ति दूरं विपद इति भृशं चिन्तनात्सर्वसिद्धिम् ॥ ९ ॥

भैरवस्याष्टकमिदं षाण्मासं यः पठेन्नरः

स याति परमं स्थानं यत्र देवो महेश्वरः ॥ १० ॥

सिन्दूरारुणगात्रं च सर्वजन्मविनिर्मितम् ।

मुकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ ११ ॥

नमो भूतनाथं नमो प्रेतनाथं

नमः कालकालं नमः रुद्रमालम् ।

नमः कालिकाप्रेमलोलं करालं

नमो भैरवं काशिकाक्षेत्रपालम् ॥

इति तीक्ष्णदंष्ट्र कालभैरवाष्टकम् ॥

teekshna danshtra kalabhairava ashtakam