Skip to main content
पडताळणी प्रलंबित

अष्टभैरव ध्यान स्तोत्रम्

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।

कपाली भीषणश्चैव संहारश्चाष्टभैरवम् ॥

१) असिताङ्गभैरव ध्यानम् –

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं

अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् ।

निर्वाणं शुनवाहनं त्रिनयनमानन्दकोलाहलं

वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १ ॥

२) रुरुभैरव ध्यानम् –

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं

हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् ।

भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं

वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालं नमामि ॥ २ ॥

३) चण्डभैरव ध्यानम् –

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रं त्रिनेत्रं

दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् ।

शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां

सर्वाभीतिं च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३ ॥

४) क्रोधभैरव ध्यानम् –

उद्यद्भास्कररूपनिभं त्रिनयनं रक्ताङ्गरागाम्बुजं

भस्माद्यं वरदं कपालमभयं शूलं दधानं करे ।

नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं

बन्धूकारुणवास अस्तमभयं देवं सदा भावयेत् ॥ ४ ॥

५) उन्मत्तभैरव ध्यानम् –

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकं त्रिशूलं

कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् ।

चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्पयज्ञोपवीतं

कालं कालान्तकारं मम भयहरं क्षेत्रपालं नमामि ॥ ५ ॥

६) कपालभैरव ध्यानम् –

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं

दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरं च ।

दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं

हस्ताद्यां वा दधानां त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६ ॥

७) भीषणभैरव ध्यानम् –

त्रिनेत्रं रक्तवर्णं च सर्वाभरणभूषितम् ।

कपालं शूलहस्तं च वरदाभयपाणिनम् ।

सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् ।

रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् ।

नीलग्रीवं च सौम्यं च सर्वाभरणभूषितम् ।

नीलमेखसमाख्यातं कूर्चकेशं त्रिनेत्रकम् ।

नागभूषं च रौद्रं च शिरोमालाविभूषितम् ।

नूपुरस्वनपादं च सर्पयज्ञोपवीतिनम् ।

किङ्किणीमालिकाभूष्यं भीमरूपं भयावहम् ॥ ७ ॥

८) संहारभैरव ध्यानम् –

एकवक्त्रं त्रिनेत्रं च हस्तयो द्वादशं तथा ।

डमरुं चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ।

धनुर्बाण कपालं च गदाग्निं वरदं तथा ।

वामसव्ये तु पार्श्वेन आयुधानां विधं तथा ।

नीलमेखस्वरूपं तु नीलवस्त्रोत्तरीयकम् ।

कस्तूर्यादिनिलेपं च श्वेतगन्धाक्षतं तथा ।

श्वेतार्कपुष्पमालां च त्रिकोट्यङ्गणसेविताम् ।

सर्वालङ्कारसम्युक्तां संहारं च प्रकीर्तितम् ॥ ८ ॥

इति श्री अष्टभैरव ध्यान स्तोत्रम् ।

ashta bhairava dhyana stotram