Skip to main content
पडताळणी प्रलंबित

श्री कार्तिकेय स्तोत्रम्

कार्तिकेय करुणामृतराशे

कार्तिके यतहृदा तव पूजा ।

पूर्तये भवति वाञ्छितपङ्क्तेः

कीर्तये च रचिता मनुजेन ॥ १ ॥

अत्यन्तपापकर्मा

मत्तुल्यो नास्ति भूतले गुह भो ।

पूरयसि यदि मदिष्टं

चित्रं लोकस्य जायते भूरि ॥ २ ॥

कारागृहस्थितं य-

-श्चक्रे लोकेशमपि विधातारम् ।

तमनुल्लङ्घितशासन-

-मनिशं प्रणमामि षण्मुखं मोदात् ॥ ३ ॥

नाहं मन्त्रजपं ते

सेवां सपर्यां वा ।

नैसर्गिक्या कृपया

मदभीष्टं पूरयाशु तद्गुह भो ॥ ४ ॥

निखिलानपि मम मन्तू-

-न्सहसे नैवात्र संशयः कश्चित् ।

यस्मात्सहमानसुत-

-स्त्वमसि कृपावारिधे षडास्य विभो ॥ ५ ॥

यदि मद्वाच्छितदाने

शक्तिर्नास्तीति षण्मुख ब्रूषे ।

तदनृतमेव स्यात्ते

वाक्यं शक्तिं दधासि यत्पाणौ ॥ ६ ॥

मयूरस्य पत्रे प्रलम्बं पदाब्जं

दधानं ककुद्येव तस्यापरं च ।

सुरेन्द्रस्य पुत्र्या च वल्ल्या च पार्श्व-

-द्वयं भासयन्तं षडास्यं भजेऽहम् ॥ ७ ॥

विवेकं विरक्तिं शमादेश्च षट्कं

मुमुक्षां च दत्त्वा षडास्याशु मह्यम् ।

विचारे च बुद्धिं दृढां देहि वल्ली-

-सुरेन्द्रात्मजाश्लिष्टवर्ष्मन्नमस्ते ॥ ८ ॥

सुरेशानपुत्रीपुलिन्देशकन्या-

-समाश्लिष्टपार्श्वं कृपावारिराशिम् ।

मयूराचलाग्रे सदा वासशीलं

सदानन्ददं नौमि षड्वक्त्रमीशम् ॥ ९ ॥

स्वभक्तैर्महाभक्तितः पक्वदेहा-

-न्समानीय दूरात्पुरा स्थापितान्यः ।

क्षणात्कुक्कुटादीन्पुनः प्राणयुक्ता-

-न्करोति स्म तं भावयेऽहं षडास्यम् ॥ १० ॥

रवजितपरपुष्टरव

स्वरधिपपुत्रीमनोऽब्जशिशुभानो ।

पुरतो भव मम शीघ्रं

पुरहरमोदाब्धिपूर्णिमाचन्द्र ॥ ११ ॥

शतमखमुखसुरपूजित

नतमतिदानप्रचण्डपदसेव ।

श्रितजनदुःखविभेद-

-व्रतधृतकङ्कण नमोऽस्तु गुह तुभ्यम् ॥ १२ ॥

वृष्टिं प्रयच्छ षण्मुख

मय्यपि पापे कृपां विधायाशु ।

सुकृतिषु करुणाकरणे

का वा श्लाघा भवेत्तव भो ॥ १३ ॥

महीजलाद्यष्टतनोः पुराणां

हरस्य पुत्र प्रणतार्तिहारिन् ।

प्रपन्नतापस्य निवारणाय

प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १४ ॥

पादाब्जनम्राखिलदेवताले

सुदामसम्भूषितकम्बुकण्ठ ।

सौदामनीकोटिनिभाङ्गकान्ते

प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १५ ॥

शिखिस्थिताभ्यां रमणीमणिभ्यां

पार्श्वस्थिताभ्यां परिसेव्यमानम् ।

स्वयं शिखिस्थं करुणासमुद्रं

सदा षडास्यं हृदि भावयेऽहम् ॥ १६ ॥

भूयाद्भूत्यै महत्यै भवतनुजननश्चूर्णितक्रौञ्चशैलो

लीलासृष्टाण्डकोटिः कमलभवमुखस्तूयमानात्मकीर्तिः ।

वल्लीदेवेन्द्रपुत्रीहृदयसरसिजप्रातरादित्यपुञ्जः

कारुण्यापारवारांनिधिरगतनयामोदवाराशिचन्द्रः ॥ १७ ॥

इति श्रीशृङ्गेरिजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री कार्तिकेय स्तोत्रम् ।

sri karthikeya stotram