Skip to main content
पडताळणी प्रलंबित

श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्)

देवा ऊचुः –

नमो भवाय शर्वाय रुद्राय वरदाय च ।

पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १ ॥

महादेवाय भीमाय त्र्यम्बकाय विशाम्पते ।

ईश्वराय भगघ्नाय नमस्त्वन्धकघातिने ॥ २ ॥

नीलग्रीवाय भीमाय वेधसां पतये नमः ।

कुमारशत्रुविघ्नाय कुमारजननाय च ॥ ३ ॥

विलोहिताय धूम्राय धराय क्रथनाय च ।

नित्यं नीलशिखण्डाय शूलिने दिव्यशालिने ॥ ४ ॥

उरगाय सुनेत्राय हिरण्यवसुरेतसे ।

अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ ५ ॥

वृषध्वजाय चण्डाय जटिने ब्रह्मचारिणे ।

तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ ६ ॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।

नमोऽस्तु दिव्यसेव्याय प्रभवे सर्वसम्पदाम् ॥ ७ ॥

अभिगम्याय काम्याय सव्यापाराय सर्वदा ।

भक्तानुकम्पिने तुभ्यं दिश मे जन्मनो गतिम् ॥ ८ ॥

इति श्रीमत्स्यपुराणे ब्रह्मादिदेवकृत महादेवस्तुतिः ।

brahmaadi deva krita mahadeva stuti