Skip to main content
पडताळणी प्रलंबित

श्री महाकाली स्तोत्रम्

ध्यानम् ।

शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदां

हास्ययुक्तां त्रिणेत्राञ्च कपाल कर्त्रिका कराम् ।

मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः

चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥

शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं

चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।

मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां

एवं सञ्चिन्तयेत्कालीं श्मशनालयवासिनीम् ॥

अथ स्तोत्रम् ।

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभाम् ॥ १ ॥

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।

त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ॥ ३ ॥

त्वयैतद्धार्यते विश्वं त्वयैतद्सृज्यते जगत् ।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ४ ॥

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५ ॥

महाविद्या महामाया महामेधा महास्मृतिः ।

महामोहा च भवती महादेवी महेश्वरी ॥ ६ ॥

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ ७ ॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८ ॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९ ॥

सौम्या सौम्यतराशेषा सौम्येभ्यस्त्वतिसुन्दरी ।

परापराणां परमा त्वमेव परमेश्वरी ॥ १० ॥

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ ११ ॥

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ १२ ॥

विष्णुः शरीरग्रहणमहमीशान एव च ।

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ १३ ॥

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १५ ॥

इति श्री महाकाली स्तोत्रम् ।

sri maha kali stotram