Skip to main content
पडताळणी प्रलंबित

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-

-र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।

सेवाभिरम्ब तव पादसरोजमूले

नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥

एतावदेव जननि स्पृहणीयमास्ते

त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।

सांनिध्यमुद्यदरुणायुतसोदरस्य

त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥

ईशत्वनामकलुषाः कति वा न सन्ति

ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।

एकः स एव जननि स्थिरसिद्धिरास्ते

यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥

लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं

कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।

कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः

संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥

ह्रीं‍कारमेव तव नाम गृणन्ति वेदा

मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।

त्वत्संस्मृतौ यमभटाभिभवं विहाय

दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥

हन्तुः पुरामधिगलं परिपीयमानः

क्रूरः कथं न भविता गरलस्य वेगः ।

नाश्वासनाय यदि मातरिदं तवार्थं

देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते

देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।

किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं

द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥

कल्पद्रुमैरभिमतप्रतिपादनेषु

कारुण्यवारिधिभिरम्ब भवात्कटाक्षैः ।

आलोकय त्रिपुरसुन्दरि मामनाथं

त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥

हन्तेतरेष्वपि मनांसि निधाय चान्ये

भक्तिं वहन्ति किल पामरदैवतेषु ।

त्वामेव देवि मनसा समनुस्मरामि

त्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-

-मालोकय त्रिपुरसुन्दरि मां कदाचित् ।

नूनं मया तु सदृशः करुणैकपात्रं

जातो जनिष्यति जनो न च जायते वा ॥ १० ॥

ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां

किं नाम दुर्लभमिह त्रिपुराधिवासे ।

मालाकिरीटमदवारणमाननीया

तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदाननिरतानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरिताहरणोद्यतानि

मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥

कल्पोपसंहृतिषु कल्पितताण्डवस्य

देवस्य खण्डपरशोः परभैरवस्य ।

पाशाङ्कुशैक्षवशरासनपुष्पबाणा

सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥

लग्नं सदा भवतु मातरिदं तवार्धं

तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।

भास्वत्किरीटममृतांशुकलावतंसं

मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥

ह्रीं‍कारमेव तव नाम तदेव रूपं

त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।

त्वत्तेजसा परिणतं वियदादिभूतं

सौख्यं तनोति सरसीरुहसम्भवादेः ॥ १५ ॥

ह्रीं‍कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं

स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।

तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी

वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः ॥ १६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कल्याणवृष्टि स्तवः ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

kalyana vrishti stava