Skip to main content
पडताळणी प्रलंबित

उच्छिष्ट गणपति स्तोत्रम्

देव्युवाच ।

नमामि देवं सकलार्थदं तं

सुवर्णवर्णं भुजगोपवीतम् ।

गजाननं भास्करमेकदन्तं

लम्बोदरं वारिभवासनं च ॥ १ ॥

केयूरिणं हारकिरीटजुष्टं

चतुर्भुजं पाशवराभयानि ।

सृणिं च हस्तं गणपं त्रिनेत्रं

सचामरस्त्रीयुगलेन युक्तम् ॥ २ ॥

षडक्षरात्मानमनल्पभूषं

मुनीश्वरैर्भार्गवपूर्वकैश्च ।

संसेवितं देवमनाथकल्पं

रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३ ॥

वेदान्तवेद्यं जगतामधीशं

देवादिवन्द्यं सुकृतैकगम्यम् ।

स्तम्बेरमास्यं ननु चन्द्रचूडं

विनायकं तं शरणं प्रपद्ये ॥ ४ ॥

भवाख्यदावानलदह्यमानं

भक्तं स्वकीयं परिषिञ्चते यः ।

गण्डस्रुताम्भोभिरनन्यतुल्यं

वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५ ॥

शिवस्य मौलाववलोक्य चन्द्रं

सुशुण्डया मुग्धतया स्वकीयम् ।

भग्नं विषाणं परिभाव्य चित्ते

आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६ ॥

पितुर्जटाजूटतटे सदैव

भागीरथी तत्र कुतूहलेन ।

विहर्तुकामः स महीध्रपुत्र्या

निवारितः पातु सदा गजास्यः ॥ ७ ॥

लम्बोदरो देवकुमारसङ्घैः

क्रीडन्कुमारं जितवान्निजेन ।

करेण चोत्तोल्य ननर्त रम्यं

दन्तावलास्यो भयतः स पायात् ॥ ८ ॥

आगत्य योच्चैर्हरिनाभिपद्मं

ददर्श तत्राशु करेण तच्च ।

उद्धर्तुमिच्छन्विधिवादवाक्यं

मुमोच भूत्वा चतुरो गणेशः ॥ ९ ॥

निरन्तरं संस्कृतदानपट्‍टे

लग्नां तु गुञ्जद्भ्रमरावलीं वै ।

तं श्रोत्रतालैरपसारयन्तं

स्मरेद्गजास्यं निजहृत्सरोजे ॥ १० ॥

विश्वेशमौलिस्थितजह्नुकन्या

जलं गृहीत्वा निजपुष्करेण ।

हरं सलीलं पितरं स्वकीयं

प्रपूजयन्हस्तिमुखः स पायात् ॥ ११ ॥

स्तम्बेरमास्यं घुसृणाङ्गरागं

सिन्दूरपूरारुणकान्तकुम्भम् ।

कुचन्दनाश्लिष्टकरं गणेशं

ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२ ॥

स भीष्ममातुर्निजपुष्करेण

जलं समादाय कुचौ स्वमातुः ।

प्रक्षालयामास षडास्यपीतौ

स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३ ॥

सिञ्चाम नागं शिशुभावमाप्तं

केनापि सत्कारणतो धरित्र्याम् ।

वक्तारमाद्यं नियमादिकानां

लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४ ॥

आलिङ्गितं चारुरुचा मृगाक्ष्या

सम्भोगलोलं मदविह्वलाङ्गम् ।

विघ्नौघविध्वंसनसक्तमेकं

नमामि कान्तं द्विरदाननं तम् ॥ १५ ॥

हेरम्ब उद्यद्रविकोटिकान्तः

पञ्चाननेनापि विचुम्बितास्यः ।

मुनीन्सुरान्भक्तजनांश्च सर्वा-

-न्स पातु रथ्यासु सदा गजास्यः ॥ १६ ॥

द्वैपायनोक्तानि स निश्चयेन

स्वदन्तकोट्या निखिलं लिखित्वा ।

दन्तं पुराणं शुभमिन्दुमौलि-

-स्तपोभिरुग्रं मनसा स्मरामि ॥ १७ ॥

क्रीडातटान्ते जलधाविभास्ये

वेलाजले लम्बपतिः प्रभीतः ।

विचिन्त्य कस्येति सुरास्तदा तं

विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८ ॥

वाचां निमित्तं स निमित्तमाद्यं

पदं त्रिलोक्यामददत्स्तुतीनाम् ।

सर्वैश्च वन्द्यं न च तस्य वन्द्यः

स्थाणोः परं रूपमसौ स पायात् ॥ १९ ॥

इमां स्तुतिं यः पठतीह भक्त्या

समाहितप्रीतिरतीव शुद्धः ।

संसेव्यते चेन्दिरया नितान्तं

दारिद्र्यसङ्घं स विदारयेन्नः ॥ २० ॥

इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं समाप्तम् ।

ucchista ganapati stotram