Skip to main content
पडताळणी प्रलंबित

श्री ऋणविमोचन महागणपति स्तोत्रम्

स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।

षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १ ॥

एकाक्षरं ह्येकदन्तं एकं ब्रह्म सनातनम् ।

एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ २ ॥

महागणपतिं देवं महासत्त्वं महाबलम् ।

महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये ॥ ३ ॥

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।

कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ ४ ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।

रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ ५ ॥

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।

पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ ६ ॥

धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।

होमधूमप्रियं देवं नमामि ऋणमुक्तये ॥ ७ ॥

फालनेत्रं फालचन्द्रं पाशाङ्कुशधरं विभुम् ।

चामरालङ्कृतं देवं नमामि ऋणमुक्तये ॥ ८ ॥

इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः ।

षण्मासाभ्यन्तरेणैव ऋणमुक्तो भविष्यति ॥ ९ ॥

इति ऋणविमोचन महागणपति स्तोत्रम् ।

runa vimochana ganesha stotram