Skip to main content
पडताळणी प्रलंबित

श्री महालक्ष्मी सहस्रनाम स्तोत्रम्

अस्य श्रीमहालक्ष्मी सहस्रनामस्तोत्र महामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः ह्रैं कीलकं श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् –

पद्मानने पद्मकरे सर्वलोकैकपूजिते ।

सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १ ॥

भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् ।

ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २ ॥

चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् ।

सुकपोलां सुकर्णाग्रन्यस्तमौक्तिककुण्डलाम् ॥ ३ ॥

सुकेशां चारुबिम्बोष्ठीं रत्नतुङ्गघनस्तनीम् ।

अलकाग्रैरलिनिभैरलङ्कृतमुखाम्बुजाम् ॥ ४ ॥

लसत्कनकसङ्काशां पीनसुन्दरकन्धराम् ।

निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् ॥ ५ ॥

नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम् ।

शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् ॥ ६ ॥

अनन्यसुलभैस्तैस्तैर्गुणैः सौम्यमुखैर्निजैः ।

अनुरूपानवद्याङ्गीं हरेर्नित्यानपायिनीम् ॥ ७ ॥

अथ स्तोत्रम् –

श्रीर्वासुदेवमहिषी पुम्प्रधानेश्वरेश्वरी ।

अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥ १ ॥

अहम्भावात्मिका पद्मा शान्तानन्तचिदात्मिका ।

ब्रह्मभावं गता त्यक्तभेदा सर्वजगन्मयी ॥ २ ॥

षाड्गुण्यपूर्णा त्रय्यन्तरूपाऽऽत्मानपगामिनी ।

एकयोग्याऽशून्यभावाकृतिस्तेजः प्रभाविनी ॥ ३ ॥

भाव्यभावकभावाऽऽत्मभाव्या कामधुगाऽऽत्मभूः ।

भावाभावमयी दिव्या भेद्यभेदकभावनी ॥ ४ ॥

जगत्कुटुम्बिन्यखिलाधारा कामविजृम्भिणी ।

पञ्चकृत्यकरी पञ्चशक्तिमय्यात्मवल्लभा ॥ ५ ॥

भावाभावानुगा सर्वसम्मताऽऽत्मोपगूहिनी ।

अपृथक्चारिणी सौम्या सौम्यरूपव्यवस्थिता ॥ ६ ॥

आद्यन्तरहिता देवी भवभाव्यस्वरूपिणी ।

महाविभूतिः समतां गता ज्योतिर्गणेश्वरी ॥ ७ ॥

सर्वकार्यकरी धर्मस्वभावात्माऽग्रतः स्थिता ।

आज्ञासमविभक्ताङ्गी ज्ञानानन्दक्रियामयी ॥ ८ ॥

स्वातन्त्र्यरूपा देवोरःस्थिता तद्धर्मधर्मिणी ।

सर्वभूतेश्वरी सर्वभूतमाताऽऽत्ममोहिनी ॥ ९ ॥

सर्वाङ्गसुन्दरी सर्वव्यापिनी प्राप्तयोगिनी ।

विमुक्तिदायिनी भक्तिगम्या संसारतारिणी ॥ १० ॥

धर्मार्थसाधिनी व्योमनिलया व्योमविग्रहा ।

पञ्चव्योमपदी रक्षव्यावृतिः प्राप्यपूरिणी ॥ ११ ॥

आनन्दरूपा सर्वाप्तिशालिनी शक्तिनायिका ।

हिरण्यवर्णा हैरण्यप्राकारा हेममालिनी ॥ १२ ॥

प्रस्फुरत्ता भद्रहोमा वेशिनी रजतस्रजा । [प्रत्नरत्ना]

स्वाज्ञाकार्यमरा नित्यसुरभिर्व्योमचारिणी ॥ १३ ॥

योगक्षेमवहा सर्वसुलभेच्छाक्रियात्मिका ।

करुणाग्रानतमुखी कमलाक्षी शशिप्रभा ॥ १४ ॥

कल्याणदायिनी कल्या कलिकल्मषनाशिनी ।

प्रज्ञापरिमिताऽऽत्मानुरूपा सत्योपयाचिता ॥ १५ ॥

मनोज्ञेया ज्ञानगम्या नित्यमुक्तात्मसेविनी ।

कर्तृशक्तिः सुगहना भोक्तृशक्तिर्गुणप्रिया ॥ १६ ॥

ज्ञानशक्तिरनौपम्या निर्विकल्पा निरामया ।

अकलङ्काऽमृताधारा महाशक्तिर्विकासिनी ॥ १७ ॥

महामाया महानन्दा निःसङ्कल्पा निरामया ।

एकस्वरूपा त्रिविधा सङ्ख्यातीता निरञ्जना ॥ १८ ॥

आत्मसत्ता नित्यशुचिः परशक्तिः सुखोचिता ।

नित्यशान्ता निस्तरङ्गा निर्भिन्ना सर्वभेदिनी ॥ १९ ॥

असङ्कीर्णाऽविधेयात्मा निषेव्या सर्वपालिनी ।

निष्कामना सर्वरसाऽभेद्या सर्वार्थ साधिनी ॥ २० ॥

अनिर्देश्याऽपरिमिता निर्विकारा त्रिलक्षणा ।

भयङ्करी सिद्धिरूपाऽव्यक्ता सदसदाकृतिः ॥ २१ ॥

अप्रतर्क्याऽप्रतिहता नियन्त्री यन्त्रवाहिनी ।

हार्दमूर्तिर्महामूर्तिरव्यक्ता विश्वगोपिनी ॥ २२ ॥

वर्धमानाऽनवद्याङ्गी निरवद्या त्रिवर्गदा ।

अप्रमेयाऽक्रिया सूक्ष्मा परनिर्वाणदायिनी ॥ २३ ॥

अविगीता तन्त्रसिद्धा योगसिद्धाऽमरेश्वरी ।

विश्वसूतिस्तर्पयन्ती नित्यतृप्ता महौषधिः ॥ २४ ॥

शब्दाह्वया शब्दसहा कृतज्ञा कृतलक्षणा ।

त्रिवर्तिनी त्रिलोकस्था भूर्भुवःस्वरयोनिजा ॥ २५ ॥

अग्राह्याऽग्राहिकाऽनन्ताह्वया सर्वातिशायिनी ।

व्योमपद्मा कृतधुरा पूर्णकामा महेश्वरी ॥ २६ ॥

सुवाच्या वाचिका सत्यकथना सर्वपालिनी ।

लक्ष्यमाणा लक्षयन्ती जगज्ज्येष्ठा शुभावहा ॥ २७ ॥

जगत्प्रतिष्ठा भुवनभर्त्री गूढप्रभावती ।

क्रियायोगात्मिका मूर्तिः हृदब्जस्था महाक्रमा ॥ २८ ॥

परमद्यौः प्रथमजा परमाप्ता जगन्निधिः ।

आत्मानपायिनी तुल्यस्वरूपा समलक्षणा ॥ २९ ॥

तुल्यवृत्ता समवया मोदमाना खगध्वजा ।

प्रियचेष्टा तुल्यशीला वरदा कामरूपिणी ॥ ३० ॥

समग्रलक्षणाऽनन्ता तुल्यभूतिः सनातनी ।

महर्धिः सत्यसङ्कल्पा बह्वृचा परमेश्वरी ॥ ३१ ॥

जगन्माता सूत्रवती भूतधात्री यशस्विनी ।

महाभिलाषा सावित्री प्रधाना सर्वभासिनी ॥ ३२ ॥

नानावपुर्बहुभिदा सर्वज्ञा पुण्यकीर्तना ।

भूताश्रया हृषीकेश्वर्यशोका वाजिवाहिका ॥ ३३ ॥

ब्रह्मात्मिका पुण्यजनिः सत्यकामा समाधिभूः ।

हिरण्यगर्भा गम्भीरा गोधूलिः कमलासना ॥ ३४ ॥

जितक्रोधा कुमुदिनी वैजयन्ती मनोजवा ।

धनलक्ष्मीः स्वस्तिकरी राज्यलक्ष्मीर्महासती ॥ ३५ ॥

जयलक्ष्मीर्महागोष्ठी मघोनी माधवप्रिया ।

पद्मगर्भा वेदवती विविक्ता परमेष्ठिनी ॥ ३६ ॥

सुवर्णबिन्दुर्महती महायोगिप्रियाऽनघा ।

पद्मेस्थिता वेदमयी कुमुदा जयवाहिनी ॥ ३७ ॥

संहतिर्निर्मिता ज्योतिः नियतिर्विविधोत्सवा ।

रुद्रवन्द्या सिन्धुमती वेदमाता मधुव्रता ॥ ३८ ॥

विश्वम्भरा हैमवती समुद्रेच्छाविहारिणी ।

अनुकूला यज्ञवती शतकोटिः सुपेशला ॥ ३९ ॥

धर्मोदया धर्मसेव्या सुकुमारी सभावती ।

भीमा ब्रह्मस्तुता मध्यप्रभा देवर्षिवन्दिता ॥ ४० ॥

देवभोग्या महाभागा प्रतिज्ञा पूर्णशेवधिः ।

सुवर्णरुचिरप्रख्या भोगिनी भोगदायिनी ॥ ४१ ॥

वसुप्रदोत्तमवधूः गायत्री कमलोद्भवा ।

विद्वत्प्रिया पद्मचिह्ना वरिष्ठा कमलेक्षणा ॥ ४२ ॥

पद्मप्रिया सुप्रसन्ना प्रमोदा प्रियपार्श्वगा ।

विश्वभूषा कान्तिमती कृष्णा वीणारवोत्सुका ॥ ४३ ॥

रोचिष्करी स्वप्रकाशा शोभमानविहङ्गमा ।

देवाङ्कस्था परिणतिः कामवत्सा महामतिः ॥ ४४ ॥

इल्वलोत्पलनाभाऽधिशमनी वरवर्णिनी ।

स्वनिष्ठा पद्मनिलया सद्गतिः पद्मगन्धिनी ॥ ४५ ॥

पद्मवर्णा कामयोनिः चण्डिका चारुकोपना ।

रतिस्नुषा पद्मधरा पूज्या त्रैलोक्यमोहिनी ॥ ४६ ॥

नित्यकन्या बिन्दुमालिन्यक्षया सर्वमातृका ।

गन्धात्मिका सुरसिका दीप्तमूर्तिः सुमध्यमा ॥ ४७ ॥

पृथुश्रोणी सौम्यमुखी सुभगा विष्टरश्रुतिः ।

स्मितानना चारुदती निम्ननाभिर्महास्तनी ॥ ४८ ॥

स्निग्धवेणी भगवती सुकान्ता वामलोचना ।

पल्लवाङ्घ्रिः पद्ममनाः पद्मबोधा महाप्सराः ॥ ४९ ॥

विद्वत्प्रिया चारुहासा शुभदृष्टिः ककुद्मिनी ।

कम्बुग्रीवा सुजघना रक्तपाणिर्मनोरमा ॥ ५० ॥

पद्मिनी मन्दगमना चतुर्दंष्ट्रा चतुर्भुजा ।

शुभरेखा विलासभ्रूः शुकवाणी कलावती ॥ ५१ ॥

ऋजुनासा कलरवा वरारोहा तलोदरी ।

सन्ध्या बिम्बाधरा पूर्वभाषिणी स्त्रीसमाह्वया ॥ ५२ ॥

इक्षुचापा सुमशरा दिव्यभूषा मनोहरा ।

वासवी पाण्डरच्छत्रा करभोरुस्तिलोत्तमा ॥ ५३ ॥

सीमन्तिनी प्राणशक्तिर्विभीषण्यसुधारिणी ।

भद्रा जयावहा चन्द्रवदना कुटिलालका ॥ ५४ ॥

चित्राम्बरा चित्रगन्धा रत्नमौलिसमुज्ज्वला ।

दिव्यायुधा दिव्यमाल्या विशाखा चित्रवाहना ॥ ५५ ॥

अम्बिका सिन्धुतनया सुश्रोणिः सुमहासना ।

सामप्रिया नम्रिताङ्गी सर्वसेव्या वराङ्गना ॥ ५६ ॥

गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी ।

देवजुष्टाऽऽदित्यवर्णा दिव्यगन्धा सुहृत्तमा ॥ ५७ ॥

अनन्तरूपाऽनन्तस्था सर्वदानन्तसङ्गमा ।

यज्ञाशिनी महावृष्टिः सर्वपूज्या वषट्क्रिया ॥ ५८ ॥

योगप्रिया वियन्नाभिः अनन्तश्रीरतीन्द्रिया ।

योगिसेव्या सत्यरता योगमाया पुरातनी ॥ ५९ ॥

सर्वेश्वरी सुतरणिः शरण्या धर्मदेवता ।

सुतरा संवृतज्योतिः योगिनी योगसिद्धिदा ॥ ६० ॥

सृष्टिशक्तिर्द्योतमाना भूता मङ्गलदेवता ।

संहारशक्तिः प्रबला निरुपाधिः परावरा ॥ ६१ ॥

उत्तारिणी तारयन्ती शाश्वती समितिञ्जया ।

महाश्रीरजहत्कीर्तिः योगश्रीः सिद्धिसाधनी ॥ ६२ ॥

पुण्यश्रीः पुण्यनिलया ब्रह्मश्रीर्ब्राह्मणप्रिया ।

राजश्री राजकलिता फलश्रीः स्वर्गदायिनी ॥ ६३ ॥

देवश्रीरद्भुतकथा वेदश्रीः श्रुतिमार्गिणी ।

तमोपहाऽव्ययनिधिः लक्षणा हृदयङ्गमा ॥ ९४ ॥

मृतसञ्जीविनी शुभ्रा चन्द्रिका सर्वतोमुखी ।

सर्वोत्तमा मित्रविन्दा मैथिली प्रियदर्शना ॥ ६५ ॥

सत्यभामा वेदवेद्या सीता प्रणतपोषिणी ।

मूलप्रकृतिरीशाना शिवदा दीप्रदीपिनी ॥ ६६ ॥

अभिप्रिया स्वैरवृत्तिः रुक्मिणी सर्वसाक्षिणी ।

गान्धारिणी परगतिस्तत्त्वगर्भा भवाभवा ॥ ६७ ॥

अन्तर्वृत्तिर्महारुद्रा विष्णुदुर्गा महाबला ।

मदयन्ती लोकधारिण्यदृश्या सर्वनिष्कृतिः ॥ ६८ ॥

देवसेनाऽऽत्मबलदा वसुधा मुख्यमातृका ।

क्षीरधारा घृतमयी जुह्वती यज्ञदक्षिणा ॥ ६९ ॥

योगनिद्रा योगरता ब्रह्मचर्या दुरत्यया ।

सिंहपिञ्छा महादुर्गा जयन्ती खड्गधारिणी ॥ ७० ॥

सर्वार्तिनाशिनी हृष्टा सर्वेच्छापरिपूरिका ।

आर्या यशोदा वसुदा धर्मकामार्थमोक्षदा ॥ ७१ ॥

त्रिशूलिनी पद्मचिह्ना महाकालीन्दुमालिनी ।

एकवीरा भद्रकाली स्वानन्दिन्युल्लसद्गदा ॥ ७२ ॥

नारायणी जगत्पूरिण्युर्वरा द्रुहिणप्रसूः ।

यज्ञकामा लेलिहाना तीर्थकर्युग्रविक्रमा ॥ ७३ ॥

गरुत्मदुदयाऽत्युग्रा वाराही मातृभाषिणी ।

अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्तोरुचारिणी ॥ ७४ ॥

वैरोचनी नारसिंही जीमूता शुभदेक्षणा ।

दीक्षाविदा विश्वशक्तिः बीजशक्तिः सुदर्शनी ॥ ७५ ॥

प्रतीता जगती वन्यधारिणी कलिनाशिनी ।

अयोध्याऽच्छिन्नसन्ताना महारत्ना सुखावहा ॥ ७६ ॥

राजवत्यप्रतिभया विनयित्री महाशना ।

अमृतस्यन्दिनी सीमा यज्ञगर्भा समेक्षणा ॥ ७७ ॥

आकूतिऋग्यजुस्सामघोषाऽऽरामवनोत्सुका ।

सोमपा माधवी नित्यकल्याणी कमलार्चिता ॥ ७८ ॥

योगारूढा स्वार्थजुष्टा वह्निवर्णा जितासुरा ।

यज्ञविद्या गुह्यविद्याऽध्यात्मविद्या कृतागमा ॥ ७९ ॥

आप्यायनी कलातीता सुमित्रा परभक्तिदा ।

काङ्क्षमाणा महामाया कोलकामाऽमरावती ॥ ८० ॥

सुवीर्या दुःस्वप्नहरा देवकी वसुदेवता ।

सौदामिनी मेघरथा दैत्यदानवमर्दिनी ॥ ८१ ॥

श्रेयस्करी चित्रलीलैकाकिनी रत्नपादुका ।

मनस्यमाना तुलसी रोगनाशिन्युरुप्रदा ॥ ८२ ॥

तेजस्विनी सुखज्वाला मन्दरेखाऽमृताशिनी ।

ब्रह्मिष्ठा वह्निशमनी जुषमाणा गुणात्यया ॥ ८३ ॥

कादम्बरी ब्रह्मरता विधात्र्युज्ज्वलहस्तिका ।

अक्षोभ्या सर्वतोभद्रा वयस्या स्वस्तिदक्षिणा ॥ ८४ ॥

सहस्रास्या ज्ञानमाता वैश्वानर्यक्षवर्तिनी ।

प्रत्यग्वरा वारणवत्यनसूया दुरासदा ॥ ८५ ॥

अरुन्धती कुण्डलिनी भव्या दुर्गतिनाशिनी ।

मृत्युञ्जया त्रासहरी निर्भया शत्रुसूदिनी ॥ ८६ ॥

एकाक्षरा सत्पुरन्ध्री सुरपक्षा सुरातुला ।

सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी ॥ ८७ ॥

बिल्वप्रियाऽवनी चक्रहृदया कम्बुतीर्थगा ।

सर्वमन्त्रात्मिका विद्युत्सुवर्णा सर्वरञ्जिनी ॥ ८८ ॥

ध्वजछत्राश्रया भूतिर्वैष्णवी सद्गुणोज्ज्वला ।

सुषेणा लोकविदिता कामसूर्जगदादिभूः ॥ ८९ ॥

वेदान्तयोनिर्जिज्ञासा मनीषा समदर्शिनी ।

सहस्रशक्तिरावृत्तिः सुस्थिरा श्रेयसां निधिः ॥ ९० ॥

रोहिणी रेवती चन्द्रसोदरी भद्रमोहिनी ।

सूर्या कन्याप्रिया विश्वभावनी सुविभाविनी ॥ ९१ ॥

सुप्रदृश्या कामचारिण्यप्रमत्ता ललन्तिका ।

मोक्षलक्ष्मीर्जगद्योनिः व्योमलक्ष्मीः सुदुर्लभा ॥ ९२ ॥

भास्करी पुण्यगेहस्था मनोज्ञा विभवप्रदा ।

लोकस्वामिन्यच्युतार्था पुष्कला जगदाकृतिः ॥ ९३ ॥

विचित्रहारिणी कान्ता वाहिनी भूतवासिनी ।

प्राणिनी प्राणदा विश्वा विश्वब्रह्माण्डवासिनी ॥ ९४ ॥

सम्पूर्णा परमोत्साहा श्रीमती श्रीपतिः श्रुतिः ।

श्रयन्ती श्रीयमाणा क्ष्मा विश्वरूपा प्रसादिनी ॥ ९५ ॥

हर्षिणी प्रथमा शर्वा विशाला कामवर्षिणी ।

सुप्रतीका पृश्निमती निवृत्तिर्विविधा परा ॥ ९६ ॥

सुयज्ञा मधुरा श्रीदा देवरातिर्महामनाः ।

स्थूला सर्वाकृतिः स्थेमा निम्नगर्भा तमोनुदा ॥ ९७ ॥

तुष्टिर्वागीश्वरी पुष्टिः सर्वादिः सर्वशोषिणी ।

शक्त्यात्मिका शब्दशक्तिर्विशिष्टा वायुमत्युमा ॥ ९८ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका ।

व्याली सङ्कर्षिणी द्योता महादेव्यपराजिता ॥ ९९ ॥

कपिला पिङ्गला स्वस्था बलाकी घोषनन्दिनी ।

अजिता कर्षिणी नीतिर्गरुडा गरुडासना ॥ १०० ॥

ह्लादिन्यनुग्रहा नित्या ब्रह्मविद्या हिरण्मयी ।

मही शुद्धविधा पृथ्वी सन्तानिन्यंशुमालिनी ॥ १०१ ॥

यज्ञाश्रया ख्यातिपरा स्तव्या वृष्टिस्त्रिकालगा ।

सम्बोधिनी शब्दपुर्णा विजयांशुमती कला ॥ १०२ ॥

शिवा स्तुतिप्रिया ख्यातिः जीवयन्ती पुनर्वसुः ।

दीक्षा भक्तार्तिहा रक्षा परीक्षा यज्ञसम्भवा ॥ १०३ ॥

आर्द्रा पुष्करिणी पुण्या गण्या दारिद्र्यभञ्जिनी ।

धन्या मान्या पद्मनेमी भार्गवी वंशवर्धनी ॥ १०४ ॥

तीक्ष्णप्रवृत्तिः सत्कीर्तिः निषेव्याऽघविनाशिनी ।

सञ्ज्ञा निःसंशया पूर्वा वनमाला वसुन्धरा ॥ १०५ ॥

पृथुर्महोत्कटाऽहल्या मण्डलाऽऽश्रितमानदा ।

सर्वा नित्योदितोदारा जृम्भमाणा महोदया ॥ १०६ ॥

चन्द्रकान्तोदिता चन्द्रा चतुरश्रा मनोजवा ।

बाला कुमारी युवतिः करुणा भक्तवत्सला ॥ १०७ ॥

मेदिन्युपनिषन्मिश्रा सुमवीरुर्धनेश्वरी ।

दुर्मर्षणी सुचरिता बोधा शोभा सुवर्चला ॥ १०८ ॥

यमुनाऽक्षौहिणी गङ्गा मन्दाकिन्यमरालया ।

गोदा गोदावरी चन्द्रभागा कावेर्युदन्वती ॥ १०९ ॥

सिनीवाली कुहू राका वारणा सिन्धुमत्यमा ।

वृद्धिः स्थितिर्ध्रुवा बुद्धिस्त्रिगुणा गुणगह्वरा ॥ ११० ॥

पूर्तिर्मायात्मिका स्फूर्तिर्व्याख्या सूत्रा प्रजावती ।

विभूतिर्निष्कला रम्भा रक्षा सुविमला क्षमा ॥ १११ ॥

प्राप्तिर्वासन्तिकालेखा भूरिबीजा महागदा ।

अमोघा शान्तिदा स्तुत्या ज्ञानदोत्कर्षिणी शिखा ॥ ११२ ॥

प्रकृतिर्गोमती लीला कमला कामधुग्विधिः ।

प्रज्ञा रामा परा सन्ध्या सुभद्रा सर्वमङ्गला ॥ ११३ ॥

नन्दा भद्रा जया रिक्ता तिथिपूर्णाऽमृतम्भरा ।

काष्ठा कामेश्वरी निष्ठा काम्या रम्या वरा स्मृतिः ॥ ११४ ॥

शङ्खिनी चक्रिणी श्यामा समा गोत्रा रमा दितिः ।

शान्तिर्दान्तिः स्तुतिः सिद्धिः विरजाऽत्युज्ज्वलाऽव्यया ॥ ११५ ॥

वाणी गौरीन्दिरा लक्ष्मीः मेधा श्रद्धा सरस्वती ।

स्वधा स्वाहा रतिरुषा वसुविद्या धृतिः सहा ॥ ११६ ॥

शिष्टेष्टा च शुचिर्धात्री सुधा रक्षोघ्न्यजाऽमृता ।

रत्नावली भारतीडा धीरधीः केवलाऽऽत्मदा ॥ ११७ ॥

या सा शुद्धिः सस्मिता का नीला राधाऽमृतोद्भवा ।

परधुर्यास्पदा ह्रीर्भूः कामिनी शोकनाशिनी ॥ ११८ ॥

मायाकृती रसघना नर्मदा गोकुलाश्रया ।

अर्कप्रभा रथेभाश्वनिलयेन्दुप्रभाऽद्भुता ॥ ११९ ॥

श्रीः कृशानुप्रभा वज्रलम्भना सर्वभूमिदा ।

भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ १२० ॥

अश्वपूर्वा रथमध्या हस्तिनादप्रबोधिनी ।

सर्वलक्षणलक्षण्या सर्वलोकप्रियङ्करी ॥ १२१ ॥

सर्वोत्कृष्टा सर्वमयी भवभङ्गापहारिणी ।

वेदान्तस्था ब्रह्मनीतिः ज्योतिष्मत्यमृतावहा ॥ १२२ ॥

भूताश्रया निराधारा संहिता सुगुणोत्तरा ।

सर्वातिशायिनी प्रीतिः सर्वभूतस्थिता द्विजा ।

सर्वमङ्गलमाङ्गल्या दृष्टादृष्टफलप्रदा ॥ १२३ ॥

इति श्री महालक्ष्मी सहस्रनाम स्तोत्रम् ।

sri mahalakshmi sahasranama stotram