Skip to main content
पडताळणी प्रलंबित

श्री ताराम्बा अष्टोत्तरशतनाम स्तोत्रम्

श्री शिव उवाच –

तारिणी तरला तन्वी तारा तरुणवल्लरी ।

ताररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १ ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।

उग्रतारा जया चण्डी श्रीमदेकजटाशिरा ॥ २ ॥

तरुणी शांभवी छिन्नफाला स्याद्भद्रदायिनी ।

उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३ ॥

द्वितीया शोभना नित्या नवीना नित्यभीषणा ।

चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४ ॥

अट्टहासा करालास्या चरास्यादीशपूजिता ।

सगुणाऽसगुणाऽराध्या हरीन्द्रादिप्रपूजिता ॥ ५ ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।

बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६ ॥

बलप्रिया बलरता बलरामप्रपूजिता ।

अर्धकेशेश्वरी केशा केशवा स्रग्विभूषिता ॥ ७ ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।

दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ ८ ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।

माहेश्वरी महादेवप्रिया पन्नगभूषिता ॥ ९ ॥

इडा च पिङ्गला चैव सुषुम्नाप्राणरूपिणी ।

गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता ॥ १० ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।

तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकाऽनघा ॥ ११ ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।

तालनादरता क्रूरतापिनी तरणिप्रभा ॥ १२ ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।

तारुण्यभावसन्तुष्टा शक्ति-र्भक्तानुरागिणी ॥ १३ ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।

ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४ ॥

बलभद्रप्रेमरता बलिभु-ग्बलिकल्पनी ।

रामप्रिया रामशक्ती रामरूपानुकारिणी ॥ १५ ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतं ।

श्रुत्वामोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६ ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यजं ।

सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मण्डले ॥ १७ ॥

तस्यैव मन्त्रसिद्धिः स्यान्मयि भक्तिरनुत्तमा ।

भवत्येव महामाये सत्यं सत्यं न सम्शयः ॥ १८ ॥

मन्दे मङ्गलवारे च यः पठेन्निशि सम्युतः ।

तस्यैव मन्त्रसिद्धिस्स्याद्गाणापत्यं लभेत सः ॥ १९ ॥

श्रद्धयाऽश्रद्धया वाऽपि पठेत्तारा रहस्यकं ।

सोऽचिरेणैवकालेन जीवन्मुक्तश्शिवो भवेत् ॥ २० ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।

एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ॥ २१ ॥

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २२ ॥

इति श्री स्वर्णमालातन्त्रे ताराम्बाष्टोत्तरशतनाम स्तोत्रम् ।

sri tara ashtottara shatanama stotram