Skip to main content
पडताळणी प्रलंबित

श्री बाला वाञ्छादात्री स्तोत्रम्

विद्याक्षमालासुकपालमुद्रा-

-राजत्करां कुन्दसमानकान्तिम् ।

मुक्ताफलालङ्कृतशोभनाङ्गीं

बालां भजे वाङ्मयसिद्धिहेतोः ॥ १ ॥

भजे कल्पवृक्षाध उद्दीप्तरत्ना-

-ऽऽसने सन्निषण्णां मदाघूर्णिताक्षीम् ।

करैर्बीजपूरं कपालेषुचापं

सपाशाङ्कुशां रक्तवर्णां दधानाम् ॥ २ ॥

व्याख्यानमुद्रामृतकुम्भविद्यां

अक्षस्रजं सन्दधतीं कराब्जैः ।

चिद्रूपिणीं शारदचन्द्रकान्तिं

बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३ ॥

पाशाङ्कुशौ पुस्तकमक्षसूत्रं

करैर्दधानां सकलामरार्च्याम् ।

रक्तां त्रिणेत्रां शशिशेखरां तां

भजेऽखिलर्घ्यै त्रिपुरां च बालाम् ॥ ४ ॥

आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं

बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् ।

त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५ ॥

आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं

बीजं मन्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् ।

रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं

ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६ ॥

रक्ताम्बरां चन्द्रकलावतंसां

समुद्यदादित्यनिभां त्रिणेत्राम् ।

विद्याक्षमालाभयदानहस्तां

ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७ ॥

अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।

मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८ ॥

मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ।

पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९ ॥

वरपीयूषकलशपुस्तकाभीतिधारिणीम् ।

सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १० ॥

शुक्लाम्बरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् ।

सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११ ॥

अकारादिक्षकारान्तवर्णावयवशालिनीम् ।

प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२ ॥

पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते ।

कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३ ॥

इति श्री बाला वाञ्छादात्री स्तोत्रम् ।

sri bala vanchadatri stotram