Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य स्तोत्रम्

आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।

लोकपालाः सर्वदेवाः चराचरमिदं जगत् ॥ १ ॥

सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।

अप्रमेयं महाशान्तं अचलं निर्विकारकम् ॥ २ ॥

निरालम्बं निराभासं सत्तामात्रमगोचरम् ।

एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥ ३ ॥

एवमज्ञानगाढान्धतमोपहतचेतसः ।

न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे ॥ ४ ॥

विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम् ।

कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च ॥ ५ ॥

तत्तदुक्ताः कथाः सम्यक् नित्यसद्गतिप्राप्तये ।

भक्त्या श्रुत्वा पठित्वा च दृष्ट्या सम्पूज्य श्रद्धया ॥ ६ ॥

सर्वान्कामानवाप्नोति भवदाराधनात्खलु ।

मम पूजामनुग्राह्य सुप्रसीद भवानघ ॥ ७ ॥

चपलं मन्मथवशममर्यादमसूयकम् ।

वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो ॥ ८ ॥

सुब्रह्मण्यस्तोत्रमिदं ये पठन्ति द्विजोत्तमाः ।

ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri subrahmanya stotram in hindi