Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तवम् – २

विराजमानपङ्कजां विभावरीं श्रुतिप्रियां

वरेण्यरूपिणीं विधायिनीं विधीन्द्रसेविताम् ।

निजां च विश्वमातरं विनायिकां भयापहां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ १ ॥

अनेकधा विवर्णितां त्रयीसुधास्वरूपिणीं

गुहान्तगां गुणेश्वरीं गुरूत्तमां गुरुप्रियाम् ।

गिरेश्वरीं गुणस्तुतां निगूढबोधनावहां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ २ ॥

श्रुतित्रयात्मिकां सुरां विशिष्टबुद्धिदायिनीं

जगत्समस्तवासिनीं जनैः सुपूजितां सदा ।

गुहस्तुतां पराम्बिकां परोपकारकारिणीं

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ३ ॥

शुभेक्षणां शिवेतरक्षयङ्करीं समेश्वरीं

शुचिष्मतीं च सुस्मितां शिवङ्करीं यशोमतीम् ।

शरत्सुधांशुभासमानरम्यवक्त्रमण्डलां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ४ ॥

सहस्रहस्तसम्युतां नु सत्यसन्धसाधितां

विदां च वित्प्रदायिनीं समां समेप्सितप्रदाम् ।

सुदर्शनां कलां महालयङ्करीं दयावतीं

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ५ ॥

सदीश्वरीं सुखप्रदां च संशयप्रभेदिनीं

जगद्विमोहनां जयां जपासुरक्तभासुराम् ।

शुभां सुमन्त्ररूपिणीं सुमङ्गलासु मङ्गलां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ६ ॥

मखेश्वरीं मुनिस्तुतां महोत्कटां मतिप्रदां

त्रिविष्टपप्रमोददां च मुक्तिदां जनाश्रयाम् ।

शिवां च सेवकप्रियां मनोमयीं महाशयां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ७ ॥

मुदालयां मुदाकरीं विभूतिदां विशारदां

भुजङ्गभूषणां भवां सुपूजितां बुधेश्वरीम् ।

कृपाभिपूर्णमूर्तिकां सुमुक्तभूषणां परां

सरस्वतीमहं भजे सनातनीं वरप्रदाम् ॥ ८ ॥

इति श्री सरस्वती स्तवम् ॥

sri saraswati stavam 2