Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तुतिः (वराहपुराणे ब्रह्म कृतम्)

ब्रह्मोवाच ।

जयस्व सत्यसम्भूते ध्रुवे देवि धरेऽक्षरे ।

सर्वगे सर्वजननि सर्वभूतमहेश्वरि ॥ १ ॥

सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।

सिद्धिबुद्धिकरे देवि प्रसूतिः परमेश्वरि ॥ २ ॥

त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ।

त्वमोङ्कारः स्थिता देवि वेदोत्पत्तिस्त्वमेव च ॥ ३ ॥

देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ।

पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ॥ ४ ॥

विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरी ।

सर्वज्ञा त्वं वरारोहे सर्वसिद्धिविधायिनी ॥ ५ ॥

सर्वगा गतसन्देहा सर्वशत्रुनिबर्हिणी ।

सर्वविद्येश्वरी देवी नमस्ते स्वस्तिकारिणि ॥ ६ ॥

ऋतुस्नातां स्त्रियं गच्छेद्यस्त्वां स्तुत्वा वरानने ।

तस्यावश्यं भवेत् सृष्टिस्त्वत् प्रसादात् प्रजेश्वरि ।

स्वरूपा विजया भद्रे सर्वशत्रुविनाशिनी ॥ ७ ॥

इति श्रीवराहपुराणे एकनवतितमोऽध्याये ब्रह्म कृत श्री सरस्वती स्तुतिः ॥

sri saraswati stuti varaha purane brahma krutam