Skip to main content
पडताळणी प्रलंबित

श्री ललिताम्बा परमेश्वर स्तवः

कलयतु कल्याणततिं

कमलासखपद्मयोनिमुखवन्द्यः ।

करिमुखषण्मुखयुक्तः

कामेशस्त्रिपुरसुन्दरीनाथः ॥ १ ॥

एकैवाहं जगती-

-त्यायोधनमध्य अब्रवीद्यादौ ।

शुम्भं प्रति सा पाया-

-दाद्या शक्तिः कृपापयोराशिः ॥ २ ॥

ईषदिति मन्यते य-

-त्पदभक्तः शम्भुविष्णुमुखपदवीः ।

सा मे निश्चलविरतिं

दद्याद्विषयेषु विष इवात्यन्तम् ॥ ३ ॥

लभते परात्मविद्यां

सुदृढामेवाशु यत्पदासक्तः ।

तां नौमि बोधरूपा-

-माद्यां विद्यां शिवाजमुखसेव्याम् ॥ ४ ॥

ह्रीमान्भवेत्सुरेश-

-स्तद्गुरुरपि यत्पदाब्जभक्तस्य ।

लक्ष्मीं गिरं च दृष्ट्वा

सा मामव्यात्तयोः प्रदानेन ॥ ५ ॥

हसति विधुं हासेन

प्रवालमपि पञ्चशाखमार्दवतः ।

अधरेण बिम्बमव्या-

-त्सा मा सोमार्धमूर्धपुण्यततिः ॥ ६ ॥

सकलाम्नायशिरोभि-

-स्तात्पर्येणैव गीयते रूपम् ।

यस्याः सावतु सततं

गङ्गाधरपूर्वपुण्यपरिपाठी ॥ ७ ॥

कलिमलनिवारणव्रत-

-कृतदीक्षः कालसर्वगर्वहरः ।

करणवशीकरणपटु-

-प्राभवदः पातु पार्वतीनाथः ॥ ८ ॥

हरतु तमो हार्दं मे

हालाहलराजमानगलदेशः ।

हंसमनुप्रतिपाद्यः

परहंसाराध्यपादपाथोजः ॥ ९ ॥

ललनाः सुरेश्वराणां

यत्पादपाथोजमर्चयन्ति मुदा ।

सा मे मनसि विहारं

रचयतु राकेन्दुगर्वहरवदना ॥ १० ॥

ह्रीमन्तः कलयति यो

मूलं मूलं समस्तलक्ष्मीनाम् ।

तं चक्रवर्तिनोऽपि

प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥

सदनं प्रभवति वाचां

यन्मूर्तिध्यानतो हि मूकोऽपि ।

सरसां सालङ्कारां

सा मे वाचं ददातु शिवमहिषी ॥ १२ ॥

करकलितपाशसृणिशर-

-शरासनः कामधुक्प्रणम्राणाम् ।

कामेश्वरीहृदम्बुज-

-भानुः पायाद्युवा कोऽपि ॥ १३ ॥

लब्ध्वा स्वयं पुमर्थां-

-श्चतुरः किञ्चात्मभक्तवर्येभ्यः ।

दद्याद्यत्पदभक्तः

सा मयि करुणां करोतु कामेशी ॥ १४ ॥

ह्रीङ्कारजपपराणां

जीवन्मुक्तिं च भुक्तिं च ।

या प्रददात्यचिरात्तां

नौमि श्रीचक्रराजकृतवसतिम् ॥ १५ ॥

श्रीमातृपदपयोजा-

-सक्तस्वान्तेन केनचिद्यतिना ।

रचिता स्तुतिरियमवनौ

पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ १६ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः श्री ललिताम्बा परमेश्वर स्तवः ।

sri lalithamba parameshwara stava