Skip to main content
पडताळणी प्रलंबित

श्री गणपति स्तवः

ब्रह्मविष्णुमहेशा ऊचुः ।

अजं निर्विकल्पं निराकारमेकं

निरानन्दमद्वैतमानन्दपूर्णम् ।

परं निर्गुणं निर्विशेषं निरीहं

परब्रह्मरूपं गणेशं भजेम ॥ १ ॥

गुणातीतमाद्यं चिदानन्दरूपं

चिदाभासकं सर्वगं ज्ञानगम्यम् ।

मुनिध्येयमाकाशरूपं परेशं

परब्रह्मरूपं गणेशं भजेम ॥ २ ॥

जगत्कारणं कारणज्ञानरूपं

सुरादिं सुखादिं युगादिं गणेशम् ।

जगद्व्यापिनं विश्ववन्द्यं सुरेशं

परब्रह्मरूपं गणेशं भजेम ॥ ३ ॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं

सदा कार्यसक्तं हृदाचिन्त्यरूपम् ।

जगत्कारकं सर्वविद्यानिधानं

परब्रह्मरूपं गणेशं नतास्मः ॥ ४ ॥

सदा सत्त्वयोगं मुदा क्रीडमानं

सुरारीन्हरन्तं जगत्पालयन्तम् ।

अनेकावतारं निजज्ञानहारं

सदा विष्णुरूपं गणेशं नमामः ॥ ५ ॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं

जगद्धारकं तारकं ज्ञानहेतुम् ।

अनेकागमैः स्वं जनं बोधयन्तं

सदा शर्वरूपं गणेशं नमामः ॥ ६ ॥

तमस्तोमहारं जनाज्ञानहारं

त्रयीवेदसारं परब्रह्मपारम् ।

मुनिज्ञानकारं विदूरेविकारं

सदा ब्रह्मरूपं गणेशं नमामः ॥ ७ ॥

निजैरोषधीस्तर्पयन्तं करोद्यैः

सरौघान्कलाभिः सुधास्राविणीभिः ।

दिनेशांशु सन्तापहारं द्विजेशं

शशाङ्कस्वरूपं गणेशं नमामः ॥ ८ ॥

प्रकाशस्वरूपं नभोवायुरूपं

विकारादिहेतुं कलाकालभूतम् ।

अनेकक्रियानेकशक्तिस्वरूपं

सदा शक्तिरूपं गणेशं नमामः ॥ ९ ॥

प्रधानस्वरूपं महत्तत्त्वरूपं

धरावारिरूपं दिगीशादिरूपम् ।

असत्सत्स्वरूपं जगद्धेतुभूतं

सदा विश्वरूपं गणेशं नतास्मः ॥ १० ॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे

जनो विघ्नसङ्घान्न पीडां लभेत ।

लसत्सूर्यबिम्बे विशाले स्थितोऽयं

जनोध्वान्त पीडां कथं वा लभेत ॥ ११ ॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगा-

-दलब्धा तवाङ्घ्रिं बहून्वर्षपूगान् ।

इदानीमवाप्तास्तवैव प्रसादा-

-त्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२ ॥

गणेश उवाच ।

इदं यः पठेत्प्रातरुत्थाय धीमान्

त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।

सपुत्रान् श्रियं सर्वकामान् लभेत

परब्रह्मरूपो भवेदन्तकाले ॥ १३ ॥

इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।

ganapathi stava