Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरभैरवी हृदयं

मेरौ गिरिवरेगौरी शिवध्यानपरायणा ।

पार्वती परिपप्रच्छ परानुग्रहवाञ्छया ॥ १ ॥

श्रीपार्वत्युवाच-

भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः ।

पुनश्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् ॥ २ ॥

श्रीशङ्कर उवाच-

शृणु देवि प्रवक्ष्यामि भैरवी हृदयाह्वयं ।

स्तोत्रं तु परमं पुण्यं सर्वकल्य़ाणकारकम् ॥ ३ ॥

यस्य श्रवणमात्रेण सर्वाभीष्टं भवेद्ध्रुवं ।

विना ध्यानादिना वाऽपि भैरवी परितुष्यति ॥ ४ ॥

ओं अस्य श्रीभैरवीहृदयमन्त्रस्य दक्षिणामूर्तिः ऋषिः पंङ्क्तिश्छन्दः – भयविध्वंसिनी भैरवीदेवता – हकारो बीजं – रीं शक्तिः – रैः कीलकं सर्वभयविध्वंसनार्थे जपे विनियोगः ॥

अथ करन्यासः ।

ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।

ओं श्रीं तर्जनीभ्यां नमः ।

ओं ऐं मध्यमाभ्यां नमः ।

ओं ह्रीं अनामिकाभ्यां नमः ।

ओं श्रीं कनिष्ठिकाभ्यां नमः ।

ओं ऐं करतलकरपृष्ठाभ्यां नमः ॥

अथाङ्गन्यासः ।

ओं ह्रीं हृदयाय नमः ।

ओं श्रीं शिरसे स्वाहा ।

ओं ऐं शिखायै वषट् ।

ओं ह्रीं कवचाय हुं ।

ओं श्रीं नेत्रत्रयाय वौषट् ।

ओं ऐं अस्त्राय फट् ।

ध्यानम् ।

देवैर्ध्येयां त्रिनेत्रामसुरभटघनारण्यघोराग्नि रूपां

रौद्रीं रक्ताम्बराढ्यां रति घटघटितो रोजयुग्मोग्ररूपाम् ।

चन्द्रार्धभ्राजि भव्याभरण करलसद्बालबिम्बां भवानीं

सिन्दूरापूरिताङ्गीं त्रिभुवनजननीं भैरवीं भावयामि ॥ १ ॥

पञ्चचामरवृत्तम् –

भवभ्रमत्समस्तभूत वेदमार्गदायिनीं

दुरन्तदुःखदारिणीं सुरद्रुहाम्

भवप्रदां भवान्धकारभेदन प्रभाकरां

मितप्रभां भवच्छिदां भजामि भैरवीं सदा ॥ २ ॥

उरः प्रलम्बिताहिमाल्यचन्द्रबालभूषणां

नवाम्बुदप्रभां सरोजचारुलोचनत्रयां

सुपर्वबृन्दवन्दितां सुरापदन्तकारकां

भवानुभावभाविनीं भजामि भैरवीं सदा ॥ ३ ॥

अखण्डभूमि मण्डलैक भारधीरधारिणीं

सुभक्तिभावितात्मनां विभूतिभव्यदायिनीं

भवप्रपञ्चकारिणीं विहारिणीं भवाम्बुधौ

भवस्यहृदयभाविनीं भजामि बैरवीं सदा ॥ ४ ॥

शरच्चमत्कृतार्ध चन्द्रचन्द्रिकाविरोधिक

प्रभावती मुखाब्ज मञ्जुमाधुरी मिलद्गिरां

भुजङ्गमालया नृमुण्डमालया च मण्डितां

सुभक्तिमुक्तिभूतिदां भजामि भैरवीं सदा ॥ ५ ॥

सुधाम्शुसूर्यवह्नि लोचनत्रयान्विताननां

नरान्तकान्तक प्रभूति सर्वदत्तदक्षिणां

समुण्डचण्डखण्डन प्रचण्डचन्द्रहासिनीं

तमोमतिप्रकाशिनीं भजामि भैरवीं सदा ॥ ६ ॥

त्रिशूलिनीं त्रिपुण्ड्रिनीं त्रिखण्डिनीं त्रिदण्डिनीं

गुणत्रयातिरिक्तमप्यचिन्त्यचित्स्वरूपिणीं

सवासवाऽदितेयवैरि बृन्दवम्शभेदिनीं

भवप्रभावभाविनीं भजामि भैरवीं सदा ॥ ७ ॥

सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गभां

दिगन्तदारितान्धकार भूरिपुञ्जपद्धतिं

द्विजन्मनित्यधर्मनीतिवृद्धिलग्नमानसां

सरोजरोचिराननां भजामि भैरवीं सदा ॥ ८ ॥

चलत्सुवर्णकुण्डल प्रभोल्लसत्कपोलरुक्

समाकुलाननाम्बुजस्थशुभ्रकीर नासिकां

सचन्द्रभालभैरवास्य दर्शन स्पृहच्चकोर-

नीलकञ्जदर्शनां भजामि भैरवीं सदा ॥ ९ ॥

इदंहृदाख्यसङ्गतस्तवं पठन्तियेऽनिशं

पठन्ति ते कदापिनान्धकूपरूपवद्भवे

भवन्ति च प्रभूतभक्ति मुक्तिरूप उज्ज्वलाः

स्तुता प्रसीदति प्रमोदमानसा च भैरवी ॥ १० ॥

यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलंसमो

न तस्य जायते पराजयोऽञ्जसा जगत्त्रये

सदा स्तुतिं शुभामिमां पठत्यनन्यमानसो

भवन्ति तस्य सम्पदोऽपि सन्ततं सुखप्रदाः ॥ ११ ॥

जपपूजादिकास्सर्वाः स्तोत्रपाठादिकाश्च याः

भैरवीहृदयस्यास्य कलान्नार्हन्ति षोडशीम् ॥ १२ ॥

किमत्र बहिनोक्तेन शृणु देवि महेश्वरि

नातः परतरं किञ्चित् पुण्यमस्ति जगत्त्रये ॥ १३ ॥

इति श्रीभैरवकुलसर्वस्वे श्रीभैरवीहृदयस्तोत्रम् ॥

sri tripura bhairavi hrudayam