Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् (वामनपुराणे मार्कण्डेय कृतम्)

त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।

सदसद्देवि यत्किञ्चिन्मोक्षदाय्यर्थवत्पदम् ॥ १ ॥

तत्सर्वं त्वयि सम्योगि योगिवद्देवि संस्थितम् ।

अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम् ।

अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ॥ २ ॥

दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम् ।

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥ ८ ॥

ओङ्काराक्षरसंस्थानं यत्तद्देवि स्थिरास्थिरम् ।

तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ॥ ४ ॥

त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।

त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥ ५ ॥

त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।

त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥ ६ ॥

एतन्मात्रात्रयं देवि तव रूपं सरस्वति ।

विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥ ७ ॥

सोमसंस्था हविःसंस्था पाकसंस्था सनातनी ।

तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ॥ ८ ॥

अनिर्देश्यपदं त्वेतदर्धमात्राश्रितं परम् ।

अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥ ९ ॥

तवैतत् परमं रूपं यन्न शक्यं मयोदितुम् ।

न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥ १० ॥

स विष्णुः स वृषो ब्रह्मा चन्द्रार्कज्योतिरेव च ।

विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥ ११ ॥

साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।

अनादिमध्यनिधनं सदसच्च सदेव तु ॥ १२ ॥

एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।

अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥ १३ ॥

नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।

सुखात् सुखं महत्सौख्यं रूपं तत्त्वगुणात्मकम् ॥ १४ ॥

एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् ।

अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ १५ ॥

येऽर्था नित्या ये विनश्यन्ति चान्ये

येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।

ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा

तेषां देवि त्वत्त एवोपलब्धिः ॥ १६ ॥

यद्वा मूर्तं यदमूर्तं समस्तं

यद्वा भूतेष्वेकमेकं च किञ्चित् ।

यच्च द्वैते व्यस्तभूतं च लक्ष्यं

तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ १७ ॥

इति श्रीवामनपुराणे द्वात्रिंशोऽध्याये मार्कण्डेय प्रोक्तं श्री सरस्वती स्तोत्रम् ॥

sri saraswati stotram vamana purane markandeya krutam