Skip to main content
पडताळणी प्रलंबित

श्री सरस्वत्यष्टकम्

अमला विश्ववन्द्या सा कमलाकरमालिनी ।

विमलाभ्रनिभा वोऽव्यात् कमला या सरस्वती ॥ १ ॥

वार्णसंस्थाङ्गरूपा या स्वर्णरत्नविभूषिता ।

निर्णया भारति श्वेतवर्णा वोऽव्यात् सरस्वती ॥ २ ॥

वरदाभयरुद्राक्षवरपुस्तकधारिणी ।

सरसा सा सरोजस्था सारा वोऽव्यात् सरास्वती ॥ ३ ॥

सुन्दरी सुमुखी पद्ममन्दिरा मधुरा च सा ।

कुन्दभासा सदा वोऽव्याद्वन्दिता या सरस्वती ॥ ४ ॥

रुद्राक्षलिपिता कुम्भमुद्राधृतकराम्बुजा ।

भद्रार्थदायिनी साव्याद्भद्राब्जाक्षी सरस्वती ॥ ५ ॥

रक्तकौशेयरत्नाढ्या व्यक्तभाषणभूषणा ।

भक्तहृत्पद्मसंस्था सा शक्ता वोऽव्यात् सरस्वती ॥ ६ ॥

चतुर्मुखस्य जाया या चतुर्वेदस्वरूपिणी ।

चतुर्भुजा च सा वोऽव्याच्चतुर्वर्गा सरस्वती ॥ ७ ॥

सर्वलोकप्रपूज्या या पर्वचन्द्रनिभानना ।

सर्वजिह्वाग्रसंस्था सा सदा वोऽव्यात् सरस्वती ॥ ८ ॥

सरस्वत्यष्टकं नित्यं सकृत् प्रातर्जपेन्नरः ।

अज्ञैर्विमुच्यते सोऽयं प्राज्ञैरिष्टश्च लभ्यते ॥ ९ ॥

इति श्री सरस्वत्यष्टकम् ॥

sri saraswati ashtakam